________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
दुर्ग गिरिः॥१०॥आप्लवन्तो ययुः, नतु मन्दं ययुरित्यर्थः ॥ ११॥ पर्वतेन्द्रम् ऋश्यमूकम् । पर्यन्तपर्वतेषु तत्र तत्र गत्वा पुनस्तमेव ऋश्यमूकं ययु रित्यर्थः॥१२॥रामा -पर्वतेन्द्रम् ऋश्यमूकैकदेशम् ॥ १२ ॥ वालिकिल्विषेण वालिकपटेन शङ्कितम् । वालिना प्रषिताविमाविति शङ्कितमित्यर्थः ॥१३॥ वालि निमित्तं सम्भ्रमस्त्यज्यताम् । मलय इति पर्वतमात्रस्य नाम । अयं मलयः अयं पर्वतः गिरिवरः ऋश्यमूक इत्यर्थः ॥ १४ ॥रामा०-मलयोऽयमुश्यमूकावयव
ततः शाखामृगाः सर्वे प्लवमाना महाबलाः । बभञ्जुश्च नगांस्तत्र पुष्पितान दुर्गसंश्रितान् ॥ १०॥ आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम् । मृगमार्जारशार्दूलांस्वासयन्तो ययुस्तदा ॥ ११॥ ततः सुग्रीवसचिवाः पर्वतेन्द्र समाश्रिताः। सङ्गम्य कपिमुख्येन सर्वे प्राञ्जलयःस्थिताः ॥ १२ ॥ ततस्तं भयसंविगं वालिकिल्बिषशङ्कितम् । उवाच हनुमान वाक्यं सुग्रीवं वाक्यकोविदः ॥१३॥ सम्भ्रमस्त्यज्यतामेष सर्वेालिकृत महान् । मलयोऽयं गिरि वरो भयं नेहास्ति वालिनः॥१४॥ यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुङ्गव । तं क्रूरदर्शनं क्रूर नेह पश्यामि वालिनम् ॥१५॥ यस्मात्तव भयं सौम्य पूर्वजात् पापकर्मणः। स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम् ॥ १६॥ अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम। लघुचित्ततयात्मानं न स्थापयसियो मतौ॥१७॥ बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचर । न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ॥१८॥ पर्वतः । 'पर्वतादृश्यमूकात्तु पुष्लुवे यत्र राघवावी' इति मलयस्यैव ऋश्यमूकशब्देन वक्ष्यमाणत्वात् ॥१४॥ वाली वेषान्तरधारी समागत इति भ्रमं वारयति-यस्मादित्यादिना ।। यस्मात् वालिनः । क्रूरं क्रूरकर्माणम् ॥ १५॥ यस्मादिति । पापकर्मणः अनुजभार्यापहारिणः । भयं भयहेतुम् ॥ १६॥ अहो इति । मतो सम्यग्वि चारे॥ १७॥ रामा०-मतौ सम्यग्विचारविषयबुद्धी ।। १७ ।। बुद्धिः सामान्यतो ज्ञानम्, विशेषतो ज्ञानं विज्ञानम्, इङ्गितम् अभिप्रायसूचको व्यापारः । सर्व पूर्वोक्तप्रकारण एकस्थानगताः । यद्वा एकायनगताः। एकमार्गगताः "अयनं वर्ममार्गावपन्थानः" इत्यमरः । सुग्रीवेण एकसुखदुःखा हरयः परिवार्योपतस्थिर इंति पूर्वेण सम्बन्धः ॥९-११॥ तत इति । पर्वतेन्द्रम् ऋश्यमूकम् ॥ १२ ॥ १३ ॥ मलयः श्यमूक इत्यर्थः । टीका-सम्श्रमो भषम । मलयः कपम्फः । भयं नास्ति मता शापादस्प वालिनो दुष्प्रवेशत्वादिति भावः ॥ १४-१६ ॥ अहो इति । मती सम्पग्विचारविषयबुद्धौ ॥१०॥ बुद्धिः सामान्यतो ज्ञानम्, विज्ञानं विशेषज्ञानम् । इङ्गितम् ।
For Private And Personal Use Only