________________
Shri Mahavir Jan Aradhana Kendra
www.kobatieth org
Acharya Shri Kalasagasun Gyarmandie
वा.रा.भू.
सम्बन्धःस्वाभाविक उक्तः ॥५२॥ एवं वसन्तोद्दीपनतामुक्त्वा मलयमारुतोद्दीपनतामाह-एप इत्यादिना । पुष्पवहः पुष्पगन्धवहः । अनेन सौरभ्य टी.कि.का. मुक्तम्, सुखस्पर्श इत्यनेन मान्यम् । हिमावहः हिमवत्त्वावह इति शैत्यम् । “तुपारः शीतलः शीतो हिमः मप्तान्यलिङ्गकाः" इत्यमरः। तां विचिन्तयतः स०१ विरहिण इत्यर्थः । पावकप्रतिमः सन्तापकर इत्यर्थः ॥ ५३ ॥ उक्तमर्थं विवृणोति-सदेति । आभ्यां संसारिण्यकिञ्चित्करी स्वदया स्वस्याप्यसह्येत्यु ।
एष पुष्पवहो वायुः सुखस्पों हिमावहः । तां विचिन्तयतः कान्तां पावकप्रतिमो मम ॥ ५३॥ सदा सुखमहं मन्ये यं पुरा सह सीतया। मारुतःस विना सीतां शोकं वर्धयते मम ॥ ५४॥ तां विना स विहङ्गो यः पक्षी प्रणदितस्तदा । वायसः पादपगतः प्रहृष्टमभिनदति ॥ ५५॥ एष वै तत्र वैदेह्या विहगः प्रतिहारकः । पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति ॥५६॥ पश्य लक्ष्मण सन्नादं वने मदविवर्धनम् । पुष्पिताग्रेषु वृक्षेषु
द्विजानामुपकूजताम् ॥ ५७॥ च्यते ॥५४॥ मध्ये यत्किंचिदाश्वसनं दृष्टमनुवदति द्वाभ्याम्-तामिति । तदा प्रथमदर्शनकाले सीताया वियोगपूर्वकाले वा । वायसः पक्षी । विहङ्गः आकाशगतः सन् । यः प्रणदितः परुषं वाशितवान् । सः इदानीं तां विना तद्विरहावस्थायां पादपगतःसन् प्रहष्टं यथा तथा अभिनर्दति । पूर्वमाकाश गतः सन् परुषनादेन तद्विश्वेपं सचितवान, इदानी पादपगतः सन् प्रहृष्टनादेनास्याः संश्लेषं सूचयतीत्यर्थः ॥५५॥ एतदेव विवृणोति-एष इति । तत्र तदानीम् । प्रतिहारकः वियोजकः सन् । आभ्यां यादृच्छिकपासङ्गिकसुकृतदर्शनमुक्तम् ॥५६॥ पश्येति । अनेन परमपदे ज्ञानप्रधाने साम मद्विरहं गतेति चाजीवनहेतुद्वयं द्रष्टव्यम् ॥ ५१-५३ ॥ सदेति । य मारुतं पुरा सीतया सह वर्तमानकाले ॥ ५४॥ टी०- सम्प्रति सीताप्राप्तिसूचकं शकुन व्यतिरेकान्वयमुखे नाह-तां विनेति । तदा पञ्चवटयां सीतया सह वर्तमानकाले । वायसः पक्षी । विहङ्गः सन विहायसा गच्छन् । संप्रणदितः परुष भाषितवान् । इदानीं तो विना JI तया विहीनावस्थायां पादपगतः प्रहृष्टमभिनर्दति । पूर्वमाकाशगतः सन परुषनादेन तस्या विश्लेष सूचितवान्, इदानी पादपगतः सन प्रहृष्टनादेन तस्याः संश्लेष सूचयतीत्यर्थः ॥ ५५ ॥ एतदेव विवृणोति-एष इति । एष खलु विहङ्गः विहायसा गच्छतीति विहङ्गः । तत्र तदानीम् । वैदेह्याः प्रतिहारकः अपहारकः, वियोजक इति यावत् । इदानीं तु स पक्षी मा तस्याः समीपमुपनेष्यतीति सम्बन्धः ॥ ५६ ॥ पश्येति । सन्नादं पश्य शब्दं वित्यर्थः ॥ ५७-६५ ॥
-
-
-
IN५॥
For Private And Personal Use Only