________________
Shri Mahawan Aradhana Kendra
www.kobatisth.org
Acharya Shri Kalassagersun yanmandir
गायिनां नित्यमुक्तानां स्थितिरुक्ता ॥५७॥ रामा -पश्यति । सन्नादं पश्य शब्द शृण्वित्यर्थः ॥ ५७ ॥ पवनेन विक्षिप्तां कम्पितां प्रियामिव स्थितां तिलकमञ्जरी| षट्पदः भृङ्गोऽभ्येति । अनेन भगवदयाविषयभूतस्योत्तरक्षणे द्वयप्राप्तिर्भवितेत्युच्यते ॥५८॥ कामिनां विरहिणाम् । शोकवर्धनः दुःखवर्धनस्वभावः स्वभावतो दुष्टप्रकृतिरित्यर्थः । अशोकः पवनोत्क्षिप्तैः वायुना पत्राणां बहिश्चालितैः स्तबकैः मां तर्जयन्निव स्थितः । त्वत्संहारार्थमिमे तप्तबाणाः पञ्च विक्षिप्ता पवनेनैतामसौ तिलकमञ्जरीम् । षट्पदःसहसाभ्येतिमदोद्भूतामिव प्रियाम् ॥ ५८॥ कामिनामयमत्यन्त मशोकः शोकवर्धनः । स्तबकैः पवनोत्क्षिप्तैस्तर्जयन्निव मां स्थितः॥ ५९॥ अमी लक्ष्मण दृश्यन्ते चूताः कुसुम शालिनः। विभ्रमोत्सिक्तमनसः सागरागा नरा इव ॥६०॥ सौमित्र पश्य पम्पायाश्चित्रासु वनराजिषु । किन्नरा नरशार्दूल विचरन्ति ततस्ततः ॥६॥ इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः। नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् ॥ ६२॥ एषा प्रसन्नसलिला पद्मनीलोत्पलायुता। हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता ॥६३॥ जले तरुणसूर्याभैः षट्पदाहतकेसरैः। पङ्कजैः शोभते पम्पा समन्तादभिसंवृता ॥ ६४ ॥ चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा। मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः ॥६५॥ पवनाहितवेगाभिरूमिभिर्विमलेऽम्मति'
पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण ॥६६॥ बाणेन स्थापिताः इति भीषयन्निव स्थित इत्युत्प्रेक्षा । संसारिणमनुजीवयन्तं मां ज्ञानिनो लजितं कुर्वन्तीत्यर्थः ॥ ५९॥ पुनरपि ज्ञानिनां समृद्धिं दर्श। यन्वर्णयति-अमी इत्यादिना । कुसुमशालिनः अत एव साङ्गरागाः। विभ्रमोसिक्तमनसः विलासगर्वितमनसः।रागिण इति यावत् । नरा इव भान्ति॥६०॥ सौमित्र इति ।स्पष्टम् ॥६१ ॥ इमानीति । नलिनानि रक्तोत्पलानि । जलेतरुणसूर्यवत् प्रतितरङ्गं प्रतिफलितबालसूर्यवत् ॥ ६२ ॥ विरजादृष्टया पम्पा वर्णयति-एपेत्यादिभिश्चतुर्भिः। “सौगन्धिकं तु करारम्" इत्यमरः। शोभत इति शेषः॥६३ ॥ रामा०-पम्पा सौगन्धिकान्वितेति पाठः ॥ १३ ॥ जल इति । पङ्कजैरभिसंवृतेत्यन्वयः ॥ ६ ॥ चित्रप्रस्थवनान्तरा चित्रतीरवनपरिधाना । अन्तरं परिधानम् ॥ ६५ ॥ पवनाहितवेगाभिः पवनोत्पादित पषनेति । पवनाहतवेगाभिः पवनाहतसंजातवेगाभिरित्यर्थः ॥६६॥६॥
For Private And Personal Use Only