________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ला
वा.रा.भ.
॥४
॥
मन्मथवर्धनाः। अन्यरतिदर्शनस्य उद्दीपनत्वादिति भावः । सशिष्यभक्तदर्शनं मे सर्वत्र भक्त्युत्पादनव्यामोहं जनयतीत्यर्थः ॥ ३७॥ पश्येत्यादिश्लोक टी.कि.को. द्वयमेकान्वयम् । नृत्यन्तं स्वयं लीलारसप्रवृत्तं भर्तारं प्रति मन्मथार्ता रत्यथै तमाकष्टुकामा शिखिनी उपनृत्यति । तामेव रामां कान्ताम् । मनसा स. १ उपधावति । समीपमागन्तुमिच्छतीत्यर्थः । उपधावनं च रत्यर्थमिति द्योतयति-पितत्येति । रुतैः रतिकूजितैः । उपलक्षितः । पक्षविस्तारणं च रत्यर्थ पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति । शिखिनी मन्मथातॆषा भर्तारं गिरिसानुषु ॥ ३८॥ तामेव मनसा रामा मयूरोप्युपधावति । वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव ॥३९॥ मयूरस्य वने नूनं रक्षसा न हृता प्रिया । तस्मानृत्यति रम्येषु वनेषु सह कान्तया ॥४०॥ मम त्वयं विना वासः पुष्पमासे सुदुस्सहः ॥४१॥ पश्य लक्ष्मण संरागं तिर्यग्योनिगतेष्वपि । यदेषा शिखिनी कामाद्भार रमतेऽन्तिके ॥४२॥ मामप्येवं विशालाक्षी जानकी जातसम्भ्रमा। मदनेनाभिवर्तेत यदि नापहृता भवेत् ॥४३॥ पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति
मे । पुष्पभारसमृद्धानां वनानां शिशिरात्यये ॥४४॥ व्यापारः। उपहसन्निव प्रसन्नमुख इत्यर्थः । यद्वा कान्ताविरहिणं मामुपहसन्निवेत्युत्प्रेक्षा । अत्र शिष्याचार्ययोरन्योन्यप्रावण्यमुच्यते ॥ ३८ ॥३९॥ वने उपभोगयोग्ये देशे रावणः सीतां हृतवान् । न तु नगर इति हादों भावः,न हृता अस्य भाग्यवशादिति भावः। तस्मादित्यादि । एतादृशरम्यदेशकालेषु धन्याः कान्ताभि क्रीडन्तीति भावः॥४०॥ अमुमेवाशयमुहाटयति-मम त्विति । विना । सीतयेति शेषः॥४१॥ रामानु-ममेति । विना, सीतयेति शेषः । अस्प लोकस्य ममाप्येवमित्येतच्छ्लोकानन्तरावस्थानमुचितम् । वनदुर्गवर्णनप्रकरणस्वारस्यात् ॥४१॥ सम्यग्रागः संरागः तम्, कान्तानुरागमित्यर्थः । तिर्यग्योनिगतेषु तिर्य। ग्योनिजातेषु । लोके स्त्रियं पुमाननुवर्तते न तु स्त्री पुरुषम्, अतोतीवास्याः कामः । अहो वसन्तवैभव इति भावः ॥ ४२ ॥ विशालाक्षी मवलोकन |विस्फारितेक्षणा । जातसम्भ्रमा जातत्वरा । यदि नापहृता भवेत् तदा मामेवाभिवर्तेत । अत्र चापलं नाम सञ्चारिभावः॥४३॥ शिशिरात्यये वसन्ते । पुष्प भारसमृद्धानां पुष्पाणि अमितानि पुष्पाणीत्यर्थः। संसारिदुःखं पश्यतो मे ज्ञानिलाभोऽकिञ्चित्कर इव भातीत्यर्थः ॥४४॥ रामानु०-पुष्पभारेति समं । पश्येति । मन्मथार्ता शिखिनी गिरिसानुषु नृत्यन्तं भर्तारं मयूरम् उपनृत्यति ॥ ३८॥ तामिति । रामा शिखिनी रुतैरु(र)पहसन्निवेत्यर्थः ॥ ३९ ॥ "मयूरस्य" इति
॥
४
॥
For Private And Personal Use Only