________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
KA अयं काला मम दयितायाः रुचिरो हि प्रियतरो हीत्यर्थः । यदीहेदानी दयिता स्यात्तदातीव तुष्येदिति भावः। कोकिलाकुलसीमान्तः कोकिलरवाकुल
चतुस्सीम इत्यर्थः॥३१॥ मन्मथायाससम्भूतः मदनपीडाजनितः। वसन्तस्य गुणेन रामणीयकेन वर्धितः । क्षिप्रं धक्ष्यति नतु चिरात् । इवशन्दो वाक्या Kलङ्कारे॥३२॥ आत्मप्रभवः मन्मथः । भूयस्त्वं प्रवृद्धत्वम् ॥३३॥ दृश्यमानः। पुष्पादिद्वारा । स्वेदसंसर्गदूषकः मलयमारुतद्वारा स्वेदसम्बन्धनिवर्तकः ।।
अयं हि दयितस्तस्याः कालो रुचिरकाननः। कोकिलाकुलसीमान्तो दयिताया ममानघ ॥ ३१ ॥ मन्मथायास सम्भूतो वसन्तगुणवर्धितः। अयं मां धक्ष्यति क्षिप्रंशोकानिचिरादिव ॥ ३२ ॥ अपश्यतस्तां दयितां पश्यतो रुचिरदुमान् । ममायमात्मप्रभवो भूयम्त्वमुपयास्यति ॥ ३३ ॥ अदृश्यमाना वैदेही शोकं वर्धयते मम । दृश्य मानो वसन्तश्च स्वेदसंसर्गदूषकः ॥ ३४ ॥ मां ह्यद्य मृगशावाक्षी चिन्ताशोकबलात्कृतम् । सन्तापयति सौमित्रे ऋरश्चैत्रो वनानिलः ॥३५॥ अमी मयूराः शोभन्ते प्रनृत्यन्तस्ततस्ततः । स्वैः पक्षैः पवनोद्भूतैर्गवाक्षैः स्फाटिकै रिव ॥३६॥ शिखिनीभिः परिवृतास्त एते मदमूछिताः । मन्मथाभिपरीतस्य मम मन्मथवर्धनाः ॥३७॥ रतिश्रान्तिहर इत्यर्थः॥३४॥ क्रूरः मन्मथोद्दीपकत्वात् । अत्र चकारो द्रष्टव्यः ॥३५॥ ततस्ततः तत्र तत्र प्रदेशे । पवनोबूतैः अत एव स्पष्टदृष्टशुभ्रनाल जालत्वात् स्फाटिकेर्गवाक्षेखि स्थितेः । यदा स्फाटिके स्फटिकप्रधानैः चन्द्रार्कपरम्परायास्तत्तुल्यत्वादिति भावः । अनेन भगवत्कृपाप्रवर्तितविविध कर्मपरा उच्यन्ते ॥३६ ॥ रामानु-अमी इति । पर्वहः । वर्हाणां स्फाटिकगवाक्षसाम्यं नर्तनावस्थायाम् अन्तरान्तरा विततोलशुभ्रनालतया ॥ ३६॥ शिखिनीभिः मयर स्त्रीभिः परिवृताः अत एव मदमूञ्छिताः मदव्याप्ताः। त एते पूर्वश्लोकोक्ता एते शिखिनः। मन्मथाभिपरीतस्य पूर्वमेव मन्मथाभिव्याप्तस्य । मम पुन अनेः स्वनवत्वं ज्वलनावस्थायां संभवति ॥ २९ ॥ ३० ॥ अयमिति । अयं कालो मम दयितायाः दयितः इष्ट इति सम्बन्धः ॥ ३१॥ मन्मथायासेति । न
चिरादिव इत्यस्योत्तरलोकेन सम्बन्धः । मन्मथायाससम्भूतः मन्मथपीडाजनितः । क्षिप्रं धक्ष्यतीति सम्बन्धः ॥ ३२ ॥ अपश्यत इति । नचिरादेव इदानीमेव, Kआत्मप्रभवः कामः, भूयस्त्वं प्रवृद्धत्वमुपयास्यतीति सम्बन्धः ॥ ३३ ॥ अदृश्यमानेति । स्वेदसंसर्गशामक: वसन्तस्य स्वेदशामकत्वं मलयानिलसाहचर्यात् ।
टी-स्वेदसंसर्गदूधकः स्वेदसंसर्गशामकः ॥ ३४ ॥ चिन्ताशोकबलात्कृत सन्ततस्मरणादुःखपरवशमित्यर्थः ॥ ३५ ॥ ३६॥ शिखिनीभिरिति । एते मपूराः मदमूञ्चिताः मदाविष्टाः ॥३॥
For Private And Personal Use Only