________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
टी.कि.कां.
बा.रा.भू. उत्पलेति नेत्रानुस्मरणम् । झषेति नेत्रचाञ्चल्यानुस्मरणम् । सौमित्रे इति । तस्य दुःखाविष्करणपात्रत्वं च व्यज्यते ॥ १ ॥ आकुलेन्द्रिय इत्येतद्विवृण्वन्नाहतस्येति । दृष्ट्वा स्थितस्य तस्य । इन्द्रियाणि हर्षाच्चकम्पिरे च्युतानीत्यर्थः ॥ २ ॥ प्रलापप्रकारमाह-सौमित्रे इत्यादिना । अनेन भक्तिद्भुतहृदयस्तत्सूचक स० १ मुखप्रसादः सपरिकरः पुरुष उच्यते ॥३॥ यत्र कानने । सशिखरा इव उन्नताग्रशाखाभिः सशृङ्गाः इव स्थिताः अत एव शैलाभाः । अनेन भगवद्दयारसोप
॥१॥
तस्य दृद्वैव तां हर्षादिन्द्रियाणि चकम्पिरे । स कामवशमापन्नः सौमित्रिमिदमब्रवीत् ॥ २ ॥ सौमित्रे शोभते पम्पा वैडूर्यविमलोदका । फुल्लपद्मोत्पलवती शोभिता विविधैर्दुमैः ॥ ३ ॥ सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् । यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव ॥ ४ ॥ मां तु शोकाभिसन्तप्तं माधवः पीडयन्निव । भरतस्य च दुःखेन वैदेह्या हरणेन च ॥ ५ ॥ शोकार्तस्यापि मे पम्पा शोभते चित्रकानना । व्यवकीर्णा बहुविधैः पुष्पैः शीतोदका शिवा ॥६॥
Acharya Shri Kailassagarsun Gyanmandir
जीविन आचार्याः तदुपजीविनोऽन्तेवासिनश्चोच्यन्ते । " अत्र परत्र चापि " इति न्यायेन नित्यविभूतावपि शिष्यवत्त्वं सिद्धम् ॥ ४ ॥ मां त्विति । भरतस्य दुःखेन नगरात् बहिर्व्रतोपवासादिनियमकृतदुःखेन । वैदेह्याः हरणेन च पूर्वमेव सन्तप्तं मां माधवो वसन्तः तु विशेषेण पीडयन्निव भवती त्यर्थः । वस्तुतः पीडाभावादिवशब्दः । अनेन संसारतो जीवस्य दुःखेन दुःखितत्वमुक्तम् ॥ ५ ॥ रामा० - मां त्वित्यादि । भरतस्य दुःखेन प्रार्थनाभङ्गजनितभरत सम्बन्धिदुःखेन वैदेह्या हरणेन च पूर्वमेव शोकाभिसन्तप्तं मां माधवः अधिकं पीडयन्निव वर्तत इति शेषः । इवशब्दो वाक्यालङ्कारे । " आधयः पडियन्ति वै " इति पाठे वक्ष्यमाणवसन्त वर्णनस्वारस्यं नास्ति ॥ ५ ॥ सर्वेषु मद्भक्तेषु सुखं वसत्सु किमर्थमेते संसारिणः क्लिश्यन्तीत्यभिप्रायेणाह - शोकार्तस्येत्यादिना । शोकार्तस्यापि मे मयि शोका तेंपि । शोभते । व्यर्थेयं शोभेति भावः ॥ ६ ॥ रामा० - शोकार्तस्यापि मे पम्पा शोभते । 'दुःखिते मनसि सर्वमसह्यम्' इति न्यायेन सर्वासह्यतापादकशोकार्तस्यापि मे पम्पा अतिरमन्द्रियः सन् विललाप परिदेवयामास ॥१-३॥ सौमित्रे इति । पम्पायाः काननं पम्पापरिसरवर्ति काननम् । यत्र कानने सशिखरा इव उन्नताप्रशाखाभिः सशृङ्गा इव, अत एव शैलाभाः ॥ ४ ॥ मां त्वित्यादि । राज्यभ्रंशबन्धुवियोगादिना पूर्वमेव शोकाभिसन्तप्तं मां भरतस्य च दुःखेन प्रार्थना लाभजनित भरतसम्बन्धि दुःखेन वैदेह्या हरणेन च भूयोऽप्याधयः पीडयन्ति वै पीडयन्ति खलु । माधवः पीडयन्निव इति पाठे अयमर्थः भरतस्य च दुःखेन वैदेह्या हरणेन च पूर्वमेव
For Private And Personal Use Only
॥ १ ॥