________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिभावक इत्यर्थः । शत्रूणामित्यर्थसिद्धम् । प्रभुरित्यपिं पाठः ॥ ११ ॥ स ददर्श ततः पुण्यामित्यादी द्वौ श्लोकौ । उदारजनाः श्रेष्ठजनाः मुनि प्रभृतयः । पानीयवाहिनीं पानाईशीतलस्वादुजलवतीमित्यर्थः । सौगन्धिकैः कलारैः । कुवलयोद्वाटेः कुवलयसमूहैः । कुथा चित्रकम्बलम् । ददर्श दूरादिति बोध्यम् । अग्र इत्यनुवादात् ॥ १२ ॥ १३ ॥ उदकवाहिनीं तां दूरादासाद्य मतङ्गसरसं नाम मतङ्गसरसमिति प्रसिद्धम् । “ अनोश्मायः स ददर्श ततः पुण्यामुदारजनसेविताम् । नानाद्रुमलताकीर्णी पम्पां पानीयवाहिनीम् ॥ १२ ॥ पद्मः सौगन्धिकस्ताम्रांशु कुमुदमण्डलैः । नीलां कुवलयोद्घाटैर्वहुवर्णी कुथामिव ॥ १३ ॥ स तामासाद्य वै रामो दूरादुदकवाहिनीम् । मतङ्गसरसं नाम हृदं समवगाहत ॥ १४ ॥ अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् । पुष्पिताम्रवणोपेतं बर्हिणोदघुष्टनादिताम् ॥ १५ ॥ तिलकैजपूरैश्च धवैः शुक्कुदुमैस्तथा । पुष्पितैः करवीरेश्व पुन्नागैश्च सुपुष्पितैः ॥ १६ ॥ मालतीक्कन्दगुल्मैश्च भाण्डीरैर्निचुलैस्तथा । अशोकैः सप्तपर्णेश्च केतकैरतिमुक्तकैः ॥ १७ ॥ अन्यैश्च विविधैर्वृक्षैः प्रमदामिव भूषिताम् । समीक्षमाणौ पुष्पाढयं सर्वतो विपुलद्रुमम् ॥ १८ ॥ कोय ष्टिकैश्चार्जुनकैः शतपत्रैश्व कीरकैः । एतैश्चान्यैश्च विहगैर्नादितं तु वनं महत् ॥ १९ ॥
सरसां जातिसंज्ञयोः" इति टच् समासान्तः । हृदं पम्पासमीपस्थं सरः । समवगाहत सस्नो, पुण्यतीर्थत्वादिति भावः ||१४|| दूरतः पम्पादर्शनमनुवदन् तत्तीवनदर्शनमाह् षड्भिः - अरविन्देत्यादि । अरविन्दुं रक्ताब्जम् । पद्मः सितपद्यैः । आम्रवणं तदनम् । बर्हिणोदृष्टं मयूरशब्दः तेन नादितां सत नादाम् ॥ १५ ॥ तिलकैः क्षुरकवृक्षैः । बीजपूरैः दाडिमैः । धवैः धवाख्यैर्वृक्षविशेषैः । शुकद्रुमैः अर्जुनवृक्षैः । करवीरैः प्रसिद्धैः । पुन्नागैः तुङ्गवृक्षैः ॥ १६ ॥ मालतीति । मालतीगुल्मैः कुन्दगुल्मैश्चेत्यन्वयः । भाण्डीरैः वटैः । निचुलैः व जुलैः । सप्तपर्णैः विषमच्छदवृक्षैः । अतिमुक्तकैः नेमिवृक्षैः । भूषितां शोभिताम् अतएव प्रमदामिव स्थितां सर्वतः चतुर्दिक्प्रदेशेपि ॥ १७ ॥ १८ ॥ कोयष्टिकैः टिट्टिभाख्यैः पक्षिविशेषैः। अर्जुनकैः पक्षिविशेषैः । कुवलयोद्घाटः इन्दीवरसमूहैः ॥ १५ ॥ मतङ्गसरसमित्यकारान्तः, तञ्च पम्पायामेव प्रदेशभेदो गङ्गार्या मणिकर्णिकेव ॥ १४ ॥ अरविन्दपद्मयोः रक्तश्वेतविषयत्वेन | भेदः । १५-१८ ॥ कोयष्टिकादयः पक्षिविशेषाः ॥ १९ ॥ २० ॥
For Private And Personal Use Only