________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
"रा.भू. ॥१८॥
शतपत्रः दाघाटैः। कीरकैः शुकैः । अव्यग्रौ तुसमाहिती व्याकुलत्वरहिती प्रत्युत सावधानी चेत्यर्थः । राघवौ अरविन्दोत्पलयतीमित्यादिविशेषिताम् टी.आ.कां. तिलकादिभिर्वृक्षभूषिताम् अतएव प्रमदामिव स्थिता पम्प सर्वतः समीक्षमाणौ ततः पुष्पाव्यं सर्वतो विपुलद्रुमं कोयष्टिकादिभिर्विहगेर्नादितम् अन्यैः ती
स. ७५ शकुनैश्च युतं सरसः पम्पायाः सम्बन्धि तदनं च पश्यन्ताश्व सन्तो अव्यग्रौ सुसमाहितौ च सन्तौ तदनं जग्मतुरिति सम्बन्धः । अतो न वनशब्दद्वय । ततो जग्मतुरव्यग्रौ राघवौ सुसमाहिती । तदनं चैव सरसः पश्यन्तौ शकुनैर्युतम् ॥ २०॥ स ददर्श ततः पम्पां शीतवारिनिधिं शुभाम् । प्रहृष्टनानाशकुनां पादपैरुपशोभिताम् । [ तिलकाशोकपुनागवकुलोद्दालकाशिनीम् ] ॥२१॥ स रामो विविधान् वृक्षान् सरांसि विविधानि च । पश्यन् कामाभिसन्तप्तो जगाम परमं हदम् ॥ २२॥ पुष्पितोपवनोपेतां सालचम्पकशोभिताम् । षट्पदौघसमाविष्टां श्रीमतीमतुलप्रभाम् ॥ २३ ॥ स्फटिकोपम तोयाढ्यां श्लक्ष्णवालुकसन्तताम् । स तां दृष्ट्वा पुनः पम्पा पद्मसौगन्धिकैर्युताम् । इत्युवाच तदा वाक्यं लक्ष्मणं सत्यविक्रमः ॥२४॥ अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः।ऋश्यमूक इति ख्यातः पुण्यः पुष्पितपादपः ॥२५ ॥ हरेर्ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः। अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः ॥ २६ ॥ सुग्रीव मभिगच्छ त्वं वानरेन्द्रं नरर्षभ । इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम् ॥ २७ ॥ राज्यभ्रष्टेन दीनेन तस्या
मासक्तचेतसा । कथं मया विना शक्यं सीतां लक्ष्मण जीवितुम् ॥ २८ ॥ दोषः ॥ १९॥२०॥ समीपतः पम्पादर्शनमाह-स ददशेति ॥ २१॥ अथ पम्पाप्राप्तिमाह-स राम इति । परमं हदं पम्पाख्यं सरः ॥२२॥ प्राप्त्य नन्तरं पम्पां दृष्ट्वा लक्ष्मणं प्रत्याह-पुष्पितेत्यादि सार्घश्लोकद्वयम् । सालाः सर्जकवृक्षाः । चम्पकाः चाम्पेयवृक्षाः ॥ २३ ॥२४॥ अस्या इति । पूर्वोक्तः कबन्धेनेति शेषः ॥२५॥ हरेानरस्य । तस्य प्रसिद्धस्य । तमृश्यमूकम् ॥ २६॥ सुग्रीवमिति । अभिगच्छेत्यनन्तरमित्युक्त्वेति शेषः । इति ॥१८॥ वक्ष्यमाणप्रकारेण सुग्रीवमभिगच्छेत्युक्त्वा लक्ष्मणं पुनरित्युवाचेत्यन्वयः ॥२७॥ राज्यभ्रष्टेन अत एव दीनेन सर्वदैन्यपरिहारार्थ तस्यां सीतायाम् । [तिलकादिभिः काशते प्रकाशते इति तथोक्ता ॥] ॥ २१-२८ ॥
For Private And Personal Use Only