SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वा.रा.भू. ॥ १७९ ॥ अथ पम्पागमनं पञ्चसप्ततितमे दिवं त्वित्यादि । स्वेन तेजसा उपलक्षितायामिति शेषः ॥ १ ॥ एकाग्रम् एकचित्तम् ॥ २ ॥ बह्वाश्वर्यः ॐ अत्यद्भुतपुष्पफलादिसम्पत्तिसकलतीर्थसमागमादिना आश्चर्ययुक्तः । विश्वस्ताः विश्वासं प्राप्ताः । परस्परहिंसकत्वरहिताः मृगाः शार्दूलाश्च यस्मिन् तथा ॥ ३ ॥ उपस्पृष्टं खातम् । अनेन पुण्यतीर्थप्राप्तौ स्वानश्राद्धादिकं कर्तव्यमित्युक्तम् ॥ ४ ॥ तत्तदशुभं प्रनष्टम् । कल्याणं शुभं तेन दिवं तु तस्यां यातायां शवर्या स्वेन तेजसा । लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥ १ ॥ स चिन्तयित्वा धर्मात्मा प्रभावं तं महात्मनाम् । हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत् ॥ २ ॥ दृष्टोऽयमाश्रमः सौम्य बह्वा श्वर्यः कृतात्मनाम् । विश्वस्तमृगशार्दूलो नानाविहगसेवितः ॥ ३ ॥ सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण । उपस्पृष्टं च विधिवत्पितरश्चापि तर्पिताः ॥ ४ ॥ प्रनष्टमशुभं तत्तत्कल्याणं समुपस्थितम् । तेन तत्त्वेन हृष्टं मे मनो लक्ष्मण सम्प्रति ॥ ५ ॥ हृदये हि नरव्याघ्र शुभमाविर्भविष्यति ॥ ६ ॥ तदागच्छ गमिष्यावः पम्प तां प्रिय दर्शनाम् । ऋश्यमूको गिरिर्यत्र नातिदूरे प्रकाशते ॥ ७ ॥ यस्मिन् वसति धर्मात्मा सुग्रीवोऽंशुमतः सुतः । नित्यं वालिभयात् त्रस्तश्चतुर्भिः सह वानरैः ॥ ८ ॥ अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् । तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् ॥ ९ ॥ एवं ब्रुवाणं तं धीरं रामं सौमित्रिरब्रवीत् । गच्छावस्त्वरितं तत्र ममापि त्वरते मनः ॥ १० ॥ आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशां पतिः । आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः ॥ ११ ॥ अशुभनिवृत्तिपूर्वकशुभप्राप्त्या || ५ || हृदय इत्यर्धमेकम् । शुभं शुभस्मरणम् ॥ ६ ॥ तदित्यादिश्लोकद्वयम् । अंशुमतः सूर्यस्य ॥ ७ ॥ ८ ॥ अभीति । मे सीताया इत्यन्वयः ॥ ९ ॥ धीरं कृतधैर्यमित्यर्थः ॥ १० ॥ ततः अनन्तरम् । विशां प्रजानां पतिः । ततः तत्र मार्गे । अभिभवतीत्यभिभूः ॥१७९॥ ॥ १ ॥ स इति । महात्मनां प्रभावं शबर्युक्तम् ॥ २ ॥ बह्नाश्चर्यः बहून्याश्चर्याणि यस्मिन् सः । कृतात्मनां शुद्धचित्तानाम् ॥ ३ ॥ उपस्पृष्टं च विधिवत् शास्त्रोक्त मार्गेण स्नातमित्यर्थः ॥ ४ ॥ ५ ॥ शुभं मित्रलाभादि ॥ ६ ॥ यत्र पम्पातीरे ॥ ७ ॥ ८ ॥ अभित्वरे त्वरावानस्मि त्वरत इत्यब्रवीदिति सम्बन्धः ॥ ९-१२ ॥ For Private And Personal Use Only टी.आ.की. स० ७५
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy