________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
dआश्रमः अयमिति शेषः। येषामाश्रमोऽयं येषामहं च परिचारिणी तेषां समीपं गन्तुमिच्छामीति सम्बन्धः ॥२९॥ धर्मिष्ठामिति । वचः आचार्य
वैभवप्रदर्शनादिरूपम् । तत्त्वतः मायां विना आश्चर्यमिति मत्वा ॥ ३०॥ अथ शबरीमनोरथं पूरयति-तामिति । संशितव्रताम् आचार्यपरिचर्यानिष्ठा मित्यर्थः । अर्चितः तव गुरुवृत्तिसन्दर्शनेनैवेति शेषः । भक्त्या वन्यसम्पादनमात्रेण वा, अयमेवार्थः संक्षेपे 'शबर्या पूजितः सम्यक' इत्युक्तः । कामं
धर्मिष्टं तु वचः श्रुत्वा राघवः सहलक्ष्मणः। प्रहर्षमतुलं लेभे आश्चर्यमिति तत्त्वतः ॥३०॥ तामुवाच ततो रामः श्रमणी संशितव्रताम् । अर्चितोहं त्वया भक्त्या गच्छ कामं यथासुखम् ॥३३॥ इत्युक्ता जटिला वृद्धा चीरकृष्णा जिनाम्बरा । तस्मिन्मुहूर्ते शबरी देहं जीर्ण जिहासती ॥ ३२ ॥ अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने । ज्वल त्पावकसङ्काशा स्वर्गमेव जगाम सा ॥३३॥ दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना। दिव्याम्बरधरा तत्र बभूव प्रियदर्शना । विराजयन्ती तं देशं विद्युत्सौदामिनी यथा ॥३४॥ यत्र ते सुकृतात्मानो विहरन्ति महर्षयः। तत्पुण्यं
शबरीस्थानं जगामात्मसमाधिना॥३५॥ इत्याचे श्रीरामायणे. श्रीमदारण्यकाण्डे चतुःसप्ततितमः सर्गः * ॥७॥ काम्यमानं लोकम् ॥३१॥ इतीति श्लोकद्वयमेकान्वयम् । जिहासती हातुमिच्छन्ती । स्वर्गमेवेत्यवधानं द्योतयति ॥ ३२॥ ३३ ॥ दिव्येति साध श्लोकः । तत्र स्वर्गगमनारम्भे विद्युत् विशेषेण द्योतमाना सौदामिनी तडित् ॥३४॥ ते गुरवः सुकृतात्मानः सुकृतधैर्यवन्तः । आत्मसमाधिना आत्म विषययोगेन । एतत्सर्गवृत्तान्तेन मतङ्गशिष्योपदिष्टसमाधिका शबरी गुर्वनुज्ञया रामागमनपर्यन्तं स्थित्वा ततो रामानुज्ञया स्वसमाधिबलेन स्वगुरु गतं स्वर्गविशेष प्राप्तेत्यवगम्यते। स्त्रिया अपि विदुरादेखि योगाधिकार सम्भवति तदङ्गयज्ञादिकर्मस्थाने गुरुशुश्रूपा । स्वर्गश्च आदी अक्षयानित्युक्त्या पुनरावृत्तिरहितं परमपदमित्यवगम्ये । “एवमेवामुत्र पुण्यचितो लोकः क्षीयते " इति श्रुत्या केवलस्वर्गस्य क्षयित्वावगमात् । अस्मिन् सगै सार्धपञ्चत्रिंशच्छ्लोकाः॥ ३५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुःसप्ततितमः सर्गः ॥७॥
धर्मिष्ठमिति श्रुतार्थमुद्दिश्येति शेषः ॥३०॥ संशितव्रता तीक्ष्णवताम् ॥३१॥ आत्मानं हुताशने हुत्वा स्वाचार्योपदिष्टमार्गेणेत्यर्थः । स्वर्ग ब्रह्मलोकमेव ॥३२-३४॥ लायत्र ब्रह्मलोके तत्पुण्यस्थानं शबरी आत्मसमाधिना ब्रह्मसमाधिना जगाम।।३५॥इति श्रीमहे श्रीरामायणतत्व आरण्यकाण्डव्याख्यायो चतुःसप्ततितमः सर्गः॥७॥ या .सर्गश्रवणफलम् । स्काम्दे-" शबर्षा सत्कति श्रुत्वा साधीना लोकगो भवेत् ॥" इति ।
For Private And Personal Use Only