SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir ॥१७॥ पूजास्थानम् । इयम् अवलोक्यतामिति शेषः। यत्र वेद्या मे मया सुसत्कृतास्ते गुरवःश्रमात् वृद्धताकृतया पुष्पधारणाशक्त्या उद्देपिभिः उत्कम्पिभिःटी .आ.को. करैः पुष्पोपहारं पुष्पैरर्चनं कुर्वन्ति अकुर्वन् । अत्र वेदिरिति जात्येकवचनम् । उत्तरश्लोके बहुवचनप्रयोगात् बहूनां बहुषेदिसम्भवाच ॥२३॥M तेषाम् अस्मदाचार्याणाम् । प्रभावेन अतुलप्रभाः इमाः वेद्यः अद्यापि तेषामसनिधानेपि सर्वा दिशः द्योतयन्ति प्रकाशयन्ति । अनेन आचार्याभिमतो तेषां तपःप्रभावेन पश्याद्यापि रदह । द्योतयन्ति दिशः सर्वाः श्रिया वेद्योतुलप्रभाः॥२४॥ अशक्नुवद्भिस्तैर्गन्तु मुपवासश्रमालसैः। चिन्तितेऽभ्यागतान पश्य सहितान् सप्तसागरान् ॥२५॥ कृताभिषेकैस्तैयस्ता वल्कलाः पादपे विहु । अद्यापि नावशुष्यन्ति प्रदेशे रघुनन्दन ॥२६॥ देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै । पुष्पैः कुवलयः सार्ध म्लानत्वं नोपयान्ति वै॥२७॥कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया ।तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत् कलेवरम् ॥२८॥ तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम् । मुनीनामाश्रमो येषामहं च परिचारिणी ॥२९॥ देशस्तदसन्निधानेप्युद्देश्य इत्युक्तम् ॥ २४ ॥ पुनर्वैभवान्तरमाह-अशक्नुवद्भिरिति । उपवासश्रमेण अलसैः मन्दैः अत एव सप्त सागरान् गन्तुमशM क्नुवद्भिः मे गुरुभिः चिन्तिते चिन्तितमात्रे अभ्यागतान् अभिमुखमागतान् सप्त सागरान् पश्य ॥२५॥ अद्भुतान्तरमाह-कृतेति । इह प्रदेशे सागर प्रदेशे कृताभिपेकैः कृतस्रानः तैर्गुरुभिः पादपेषु न्यस्ताः आईवल्कलाः अद्यापि नावशुष्यन्ति न शुष्का भवन्ति । तदङ्गसम्पर्कवैभवादिति भावः ॥२६॥ देवकार्याणि देवार्चनानि कुर्वद्भिःतैः कुवलयैः सह पुष्पैः पुष्पान्तरैः यानीमानि माल्यानि कृतानि तानि म्लानत्वं नोपयान्ति भक्त्यतिशयेन समर्पितत्वादिति भावः । एतावता ग्रन्थसन्दर्भण "गुरुं प्रकाशयेद्धीमान्" इत्युक्तरीत्या आचार्यवैभवप्रकटनं कर्तव्यमिति सूचितम् ॥२७॥ उपसंहरतिकृत्स्नमिति । अभ्यनुज्ञाता त्वयोति शेषः॥२८॥ त्यक्त्वा किं करिष्यसीत्यत्राह-नेपामिति । समीपं पादमूलं गमिष्यामि यानहं पर्यचारिपमित्यन्यत्रोक्तेः।। पूजां कुर्वन्ति अकुर्वन् । सेयं प्रत्यक प्रतीच्या स्थलं यस्यास्सा तथा भवेदित्यन्वयः॥२३-२६॥ देवकार्याणीति । यानीमानि कृतानि, माल्यानीति शेषः ॥२७॥२८॥ येषां मुनीनामयमाश्रमः येषां चाहं परिचारिणी तेषां भावितात्मनां सदानुसंहितपरमात्मनां मुनीनां समीपं गन्तुमहमिच्छामीति चाब्रवीत् ॥ २९ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy