SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विविधमित्यनेन फलमूलादिभेद उच्यते । सञ्चितमित्यनेन रामस्य चित्रकूटागमनात् प्रभृति सम्पादितत्वम् आदरेण गुप्तत्वं च तत्तत्फलजातीयमाधुर्य परीक्ष्य स्थापितमिति सम्प्रदायः ॥ १७ ॥ विज्ञाने विषये । अबहिष्कृतामु अन्तरङ्गभूताम् । जात्या हीनामप्याचार्यप्रसादलब्धत्रह्मज्ञानामिति भग वताप्यादरणीयत्वोक्तिः ॥ १८ ॥ दनोः सकाशात् दनुत इत्यर्थः । पञ्चम्यर्थे सकाशशब्दं प्रयुञ्जते । तत्त्वेन याथार्थ्येन ते महात्मनः त्वत्सम्बन्धिनो महात्मनः मतङ्गस्येत्यर्थः । महात्मनामिति पाठे त्वदाचार्याणामित्यर्थः । श्रुतं प्रभावं प्रत्यक्षं द्रष्टुमिच्छामि । यदि मन्यसे दर्शयितुमिति शेषः ॥ १९ ॥ एवमुक्तः स धर्मात्मा शवर्या शबरीमिदम् । राघवः प्राह विज्ञाने तां नित्यमवहिष्कृताम् ॥ १८ ॥ दनोः सकाशा तत्त्वेन प्रभावं ते महात्मनः । श्रुतं प्रत्यक्षमिच्छामि द्रष्टुं यदि मन्यसे ॥ १९ ॥ एतत्तु वचनं श्रुत्वा रामवक्त्रा द्विनिःसृतम् । शबरी दर्शयामास तावुभौ तद्वनं महत् ॥ २० ॥ पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् । मतङ्ग वनमित्येव विश्रुतं रघुनन्दन ॥ २१ ॥ इह ते भावितात्मानो गुरवो मे महावने । जुहवाञ्चक्रिरे तीर्थं मन्त्रवन्मन्त्र पूजितम् ॥ २२ ॥ इयं प्रत्यक्स्थली वेदिर्यत्र ते मे सुसत्कृताः । पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः ॥ २३ ॥ एतत्त्विति । विनिस्सृतं निर्गतम् ॥ २० ॥ मेघधनप्रख्यं घनमेषसदृशं विश्रुतं वनमिति शेषः ॥ २१ ॥ भावितात्मानः चिन्तितात्मानः ते प्रसिद्धाः मे २७ गुरवः । मन्त्रवन्मन्त्रपूजितं मन्त्रवतां मन्त्रैः पूजितं तीर्थं गङ्गादिपुण्यसलिलम् । इह प्रदेशे जुहवाञ्चक्रिरे आहूतवन्तः । महाद्युते इत्यनेन मुनिप्रभाव श्रवणे सन्तोषवत्त्वं व्यज्यते ॥ २२ ॥ प्रत्यक्स्थली प्रत्यक्प्रदशे स्थलीभूता । प्राक्प्रदेशे पश्चिमाभिमुख विष्णुस्थानत्वेन प्रत्यनित्रेत्यर्थः । वेदिः देव प्रायेण वा बहुवचनम् ॥ १५-१७ ॥ एवमिति । विज्ञाने अतीतानागतज्ञाने अवहिष्कृताम् (सर्वदा विज्ञानसम्पन्नामिति यावत् । ) ॥ १८ ॥ दनोरिति । महात्मनो दनोः सकाशाच्छुतं ते तव गुरूणां प्रभावं प्रत्यक्षं द्रष्टुम् इच्छामि । यदि मन्यसे सन्दर्शयितुमिति शेषः ॥ १९ ॥ २० ॥ पश्येति । मेघघन प्रख्यं मेघवत् घना अधिका प्रख्या प्रभा यस्य तत् ॥ २१ ॥ इह गुहायाम् । मन्त्रवन्मन्त्रपूजितं मन्त्रवत मुनीनां मन्त्रैः पूजितं पालितं तीर्थं यज्ञम् "तीर्थ मन्त्रा |पाध्याययज्ञेष्वम्भसि पावके " इति रत्नाकरे ॥ २२ ॥ इयमिति । मे मया सुसत्कृतास्ते गुरवः । श्रमात् उपवासश्रमात् । उद्वेपिभिः करैः । यत्र वेद्यां पुष्पोपहारं शिरसा धार्य पीत्वा च वयैः पुष्पैरथार्चयत्। फलानि च सुपकानि मूलानि मधुराणि च । स्वयमास्वाद्य माधु परीक्ष्य परिमय च । पश्चानिवेदयामास राघवाभ्यां दृढव्रता । फलान्यास्वाद्य काकुत्स्थस्तस्यै मुक्ति परां ददौ । " इति ॥ १७ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy