________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू. ॥१७॥
तपासिद्धिः तपःपरिपाकः । तप्तं तपः ॥११॥ अद्य म इति । अद्येत्यस्यार्थ विवृणोति-त्वयीति । देववरे विष्णौ। अनेन शबर्याः परमार्थज्ञानं वृत्तमिति टी.आ.का. सूच्यते ॥ १२॥ एवमुपचारवादानुक्त्वा स्वप्रयोजनमाह-चक्षुषेति । ते सौम्येन चक्षुषा निर्हेतुककटाक्षेण पूतास्मि अनेन पूर्वाधविनाश उक्तः । आरिस दमेत्यनेन उत्तराषाश्शेष उच्यते । त्वत्प्रसादात् " धातुः प्रसादान्महिमानमात्मनः " इत्युक्तत्वादाचार्यप्रसादोपबृंहितात्त्वत्प्रसादात् । अक्षयान् ।
अद्य प्राप्ता तपःसिद्धिस्तव सन्दर्शनान्मया। अद्य मे सफलं तप्तं गुरवश्च सुपूजिताः॥११॥ अद्य मे सफलं जन्म स्वर्गश्चैव भविष्यति । त्वयि देववरे राम पूजिते पुरुषर्षभ ॥ १२ ॥ चक्षुषा तव सौम्येन पूतास्मि रघुनन्दन । गमिष्याम्यक्षयान लोकांस्त्वत्प्रसादादरिन्दम ॥ १३॥ चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः । इतस्ते दिवमारूढा यानहं पर्यचारिषम् ॥ १४ ॥ तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः । आगमिष्यति ते रामः सुपुण्यमिममाश्रमम् ॥ १५॥ स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः। तं च दृष्ट्वा वरान् लोकानक्षयांस्त्वं गमिष्यसि ॥ १६॥ भया तु विविध वन्यं सञ्चितं पुरुषर्षभ । तवार्थे पुरुषव्याघ्र पम्पायास्तीरसम्भवम् ॥ १७॥ लोकान् गमिष्यामि पुनरावृत्तिरहितं परमपदं प्राप्स्यामीत्यर्थः ॥ १३ ॥ ताई त्वदाचार्यैरेव सह किमर्थं न गतासीत्यवाह-चित्रकूटमिति । ते मतङ्गा शिष्या मदाचार्याः ॥ १४ ॥ तैरिति । धर्मज्ञैः योगरूपभगवत्पाप्त्युपायाभावेप्याचार्यप्रसादकृतभगवत्प्रसादात् सद्गतिमियं प्राप्स्यतीत्येतद्धर्मज्ञःमहा भागेः भविष्यत्तदृत्तान्तज्ञानोचितभाग्यवद्भिः। सुपुण्यमित्यागमनाईत्वमुच्यते।स इति । प्रतिग्रहीतव्यः आतिथ्यकरणेन सत्करणीयः । दृष्ट्वा तेन दर्शनेन निमित्तेन अक्षयान लोकान् गमिष्यसि । वरानिति कैवल्यव्यावृत्तिः । गमिष्यसीति तैरहमुक्तेत्यन्वयः। अनेन आचार्यशुश्रूषणं भगवत्प्रसादद्वारा मोक्ष हेतुरित्युक्तं भवति ॥१५॥१६॥ आचार्योंक्तिश्रद्धामात्मनः सूचयति-मया विति। तीरसम्भवं विविधं वन्यं सञ्चितम् । वन्यशब्देन फलमूलादिकमुच्यते ॥१७॥ रिति । आगमिष्यति अनुग्रहायेति शेषः । ते त्वया । तं दृष्ट्वा अस्मत्सेवाफलभूतं त्वदर्शनं प्राप्य अक्षयान् लोकान् ब्रह्मलोकम्, अवयवाभिप्रायेण गुणामि । ति०-एवमुक्ता यतोऽहमतो म्या त्वदर्थ वन्यं सम्यक्परीक्ष्य माधुर्ययुक्त सञ्चितमित्यर्थः । तदुक्तं पाझे शबरी प्रस्तुत्य-"प्रायुद्गग्य प्रणम्याय निवेत्य कुशविष्टरे । पादप्रक्षालनं कृत्वा तत्तोपं पापनाशनम् ।
For Private And Personal Use Only