SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir एवमेतावत्पर्यन्तं भगवत्कैद्यतत्फले दर्शिते।अथाचार्याभिमाननिष्ठातत्फले दर्शयति चतुःसप्ततितमे-तावित्यादि । प्रतीची दिशं गृह्य गृहीत्वा कब। न्धेन दर्शितं पम्पाया मार्गमुद्दिश्य प्रतस्थतुःप्रतस्थाते ॥१॥शैलेष्वाचितान् प्ररूढान् अनेकांश्च क्षौद्रकल्पफलान् मधुतुल्यफलयुक्तान् वीक्षन्तो वीक्षमाणौ ॥२॥ कृत्वा चेति । वासं तस्यां राज्यामिति शेषः । उपतस्थतुः उपतस्थाते, प्रापतुरित्यर्थः । राज्यन्त इति शेषः ॥३॥ तौ पुष्करिण्या ता कबन्धेन तं मार्ग पम्पाया दर्शितं वने । प्रतस्थतुर्दिशं गृह्य प्रतीची नृवरात्मजौ ॥१॥ तौ शैलेष्वाचिताने कान क्षौद्रकल्पफलान दुमान् । वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ ॥ २॥ कृत्वा च शैलपृष्ठे तु ती वासं रामलक्ष्मणौ । पम्पायाः पश्चिमं तीरं राघवावुपतस्थस्तुः ॥३॥ तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम् ॥ ४ ॥ तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम् । सुरम्यमभिवीक्षन्तो शबरीमभ्युपेयतुः ॥५॥ तौ च दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः । रामस्य पादौ जग्राह लक्ष्मणस्य च धीमतः। पाद्यमाचमनीयं च सर्व प्रादाद्यथाविधि ॥६॥ तामुवाच ततो रामः श्रमणी संशितव्रताम् । कञ्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः॥७॥ कच्चित्ते नियतः क्रोध आहारश्च तपोधने । कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् ॥८॥ कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि ॥९॥रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता। शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता ॥१०॥ इति । स्पष्टम् ॥४॥ ताविति । आश्रममासाद्य तमभिवीक्षन्ती अभिवीक्षमाणौ ॥५॥ तो चेति सार्घश्लोक एकान्वयः । सिद्धा सिद्धयोगा ॥ ६॥ विप्राः। तपोविनाः कामादयः। नियतः निगृहीतः। आहारश्चेत्यत्रापि नियत इत्यनुषज्यते । “तपो नाशननात्परम्" इति श्रुतेः। नियमाः व्रतानि । मनसः सुखं । मनस्सन्तोषः । चारुभाषिणीति साध्वीसम्बोधनप्रकारः । इति तामुवाचेति सम्बन्धः ॥७-९॥ रामेणेति । रामाय प्रत्युपस्थितेति तादयें चतुर्थी ॥ १०॥ ताविति । प्रतीची दिशं परिगृह्य कबन्धेन दर्शितं पम्पामार्गमुद्दिश्य प्रतस्थतुः॥१॥ क्षौद्रकल्पफलान् माधुर्येण मधुतुल्यफलान् ॥२॥ उपतस्थतुः प्रापतुः॥३-६॥ विनाः तपोविघ्नाः कामादयः । कोपो नियतः निगृहीतः आहारश्च नियत इत्यनुकर्षः ॥ ७-९॥रामेणेति । प्रत्यवस्थिता अभिमुखावस्थिता ।। १०-१४ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy