SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie वा.रा.भू. टी.आ.का. ॥१७६॥ स०७३ अपिधानमाच्छादनं यस्याः सा। अस्या गुहायाः प्रवेशनं दुःखं दुःखकरम्, उन्नतस्थानस्थितत्वादिति भावः ॥ ३९ ॥ महान् विशालः, अस्तीति शेषः। फलमूलान्वितः फलमूलान्विततीरः ॥४०॥ तस्यामिति । कदाचित् भूमाविति सिद्धम् ॥४१॥ अनुशास्य उपदिश्य । सगस्यास्तीति खम्बी । 'अस्मायामेधास्त्रजो विनिः" इति विनिप्रत्ययः । भास्करंवर्णाभः सूर्यप्रभातुल्यप्रभः। खे व्यरोचत रामानुज्ञानार्थ क्षणमतिष्ठदित्यर्थः ॥ १२ ॥ तस्या गुहायाः प्राग्द्वारे महान् शीतोदको द्वदः । फलमूलान्वितो रम्यो नानामृगसमावृतः ॥४०॥ तस्या वसति सुग्रीवश्चतुर्भिः सह वानरैः । कदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते ॥ ४१ ॥ कबन्धस्त्वनु शास्यैवं तावुभौ रामलक्ष्मणौ । स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् ॥४२॥ तं तु खस्थं महाभागं कबन्धं गमलक्ष्मणौ । प्रस्थितौ त्वं ब्रजस्वति वाक्यमूचतुरन्तिके ॥४३॥ गम्यता कार्यसिद्धयर्थमिति तावब्रवीत्स च । सुप्रीती नावनुज्ञाप्य कबन्धः प्रस्थितस्तदा ॥ १४ ॥ स तत्कबन्धः प्रतिपद्य रूपं वृतः श्रिया भास्करतुल्यदेहः । निदर्शयन् राममवेक्ष्य खस्थं सख्यं कुरुष्वेति तदाभ्युवाच ॥ ४५ ॥ इत्यार्षे श्रीरामायणे श्रीवाल्मीकीये आदि काव्ये श्रीमदारण्यकाण्डे त्रिसप्ततितमः सर्गः ॐ ॥७३॥ तंत्विति। प्रस्थितौ सन्तौ सुखं ब्रजस्व ब्रज। इति अन्तिके ऊचतुःअन्तिके प्रस्थिताविति कबन्धसमीपमागत्योचतुरित्यर्थः॥४३॥ गम्यतामिति । प्रस्थितः स्वर्गमिति शेषः॥४४॥ उक्तमर्थसर्गान्ते संगृह्णाति-स इति । तत् पूर्वोक्तं रूपं शरीरं रामं प्रति निदर्शयन् । सख्यं कुरुष्व सुग्रीवेणेति शेषः । अस्मिन् सर्गे पञ्चचत्वारिंशच्लोकाः॥४५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रिसप्ततितमः सर्गः ॥ ७३ ॥ अन्तिकात् कबन्धस्येति शेषः । प्रस्थिती ब्रजस्वेति वाक्यम्चतुरिति सम्बन्धः ॥ ४४ ॥ स इति । पूर्वोक्तार्थस्य संग्रहः । निदर्शयन मार्गादिकमिति योजना ऋश्यमूकस्पासाधारणमिति शेषः । खस्थो राममवेक्ष्येति किश्चिदूरं गत्वा पुनः श्रीराममवेक्ष्य आकाशे स्थित्वा सख्यं कुरुष्वेत्युवाचेत्यन्वयः । स०-भास्वरसर्वदेहः इति पाठे-प्रकाशमानसममनः । भावर प्रकाशितः सा भूभागादिपेन स देहो यस्य स इति वा ॥४५॥ इति श्रीमहे श्रीरामायणतत्त्व आरण्यकाण्डव्याख्यायां त्रिसप्ततितमः सर्गः॥७३॥ •सर्गश्रवणफलम् । स्कान्दे-'"कन्धरामसंवाद ये शृण्वन्ति सदादरात् । विप्रावमानजनितस्तापः क्षिप्रं विनश्यति ॥" इति । A९७६॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy