________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सार्धश्लोकेन-ऋश्येति । ऋश्या मृगविशेषाः मूकाः निःशब्दा भवन्ति यस्मिन् सः ऋश्यमूकः । सुदुःखमारोहणं यस्य स तथा । तब हेतुः शिशु नागाभिरक्षित इति । अत्र नागाः गजा एव 'विविधास्तत्र वै नागाः' इति पूर्वमुक्तत्वात् । उदारः प्रशस्तः । पूर्वकाले ब्रह्मणा उदारः प्रशस्तो। निर्मितः। कुत्रचिनिमित्ते अयं प्रशस्तो भवत्वित्यनुगृहीत इत्यर्थः ॥ ३१ ॥ प्राशस्त्यमाह-शयान इति ॥ ३२ ॥ ३३ ॥ अतिशयान्तरमाह
शयानः पुरुषो राम तस्य शैलस्य मूर्धनि । यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति ॥३२॥ न त्वेनं विषमाचारः पापकर्माधिरोहति ॥३३॥ यस्तु तं विषमाचारः पापकर्माधिरोहति । तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः ॥३४॥ तत्रापि शिशुनागानामाक्रन्दः श्रूयते महान् । क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम् ॥ ३५ ॥ सिक्ता रुधिर धाराभिः संहृत्य परमधिपाः। प्रचरन्ति पृथकीर्णा मेघवर्णास्तरस्विनः ॥३६॥ ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम् ।[अत्यन्तसुखसंस्पर्श सर्वगन्धसमन्वितम् ॥] निर्वृताः संविगाहन्ते वनानि वनगोचराः ॥३७॥ ऋक्षांश्च दीपिनश्चैव नीलकोमलकप्रभान् । रुरूनपेतापजयान दृष्ट्वा शोकं जहिष्यसि ॥३८॥ राम तस्य तु शैलस्य
महती शोभते गुहा । शिलापिधाना काकुत्स्थ दुःखं चास्याःप्रवेशनम् ॥ ३९ ॥ यस्त्विति ॥ ३४ ॥ शिशुनागानां कलभानाम् । तथापीत्यत्रापिशब्दात् पम्पादिकं समुच्चीयते । अनेन ऋश्यमूकस्य पम्पासामीप्यमुक्तम् ॥ ३५॥ संहत्य अन्योयं प्रहत्य रुधिरधाराभिः सिक्ताः अत एव पृथक कीर्णाः चरन्ति ॥ ३६॥ संविगाहन्ते प्रविशन्ति ॥ ३७॥ द्वीपिनः व्याघान् । नील कोमलकप्रभान् नीलरत्नवन्मनोज्ञप्रभान् । रुरुन् मृगविशेपान् । अपेतापजयान् जयशीलानित्यर्थः । जहिष्यसि त्यक्ष्यसि ॥ ३८॥ रामेति । शिला तत्र हेतुः शिशुनागाभिरक्षितः बालसपैरधिष्ठितः । उदारः तथा ऋश्यमूकः ब्रह्मणा पूर्वकाले विनिर्मित इत्यन्वयः ॥३१॥ उक्तमौदार्य समर्थयति-शयान इति । अधिगच्छति प्राप्नोति ॥ ३२ ॥ सुदुःखारोहणत्वे हेत्वन्तरमाह-न त्वेनमिति ॥३३॥३४॥ शिशुनागाना बालगजादीनाम आक्रन्दः ध्वनिः तस्मिन् पर्वते श्रूयते ॥३५॥ सिक्ता इति । द्विपाः गजाः । संहत्य अन्योन्यमभिहत्य अत एव रुधिरधाराभिः सिक्ताः पृथक्कीर्णाः सञ्चरन्तीति योजना ॥३६॥ ३७ ॥ ऋक्षानिति । नीलकोमलक मभान नीलमणिवत्कोमलकान्तीन ॥ ३८ ॥ ऋश्यमूकस्यासाधारणचिह्नमाह-रामेति । शिलापिधानेति गुहा नामेति ज्ञातव्यम् ॥ ३९-४३॥
For Private And Personal Use Only