________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भृशमित्यादिद्वावेकान्वयौ । पुष्पसञ्चये पुष्पसमूहे वर्तमानम् अत एव सुगन्धि शिवं पापापहम् । सुखशीतम् नातिशीतमित्यर्थः । अनामयम् अव्याधि करमित्यर्थः । एवम्भूतं वारि पुष्करपणेन पद्मपत्रेण पम्पाया उद्धृत्य पाययिष्यति ॥१६॥१७॥ स्थूलानित्यादिसाधश्लोक एकान्वयः । गिरिगुहायां शय्या येषां तान रूपान्वितान् । सौन्दर्यवतः ॥ १८ ॥ १९ ॥ विटपीन् विटपिनः । इनिप्रत्ययस्य नलोप आपः। माल्यधारिणः पुष्पधारिणः पुष्प
भृशं ते खादतो मत्स्यान पम्पायाः पुष्पसञ्चये। पद्मगन्धि शिवं वारि सुखशीतमनामयम् ॥ १६ ॥ उद्धृत्य सतता क्लिष्टं रौप्यस्फाटिकसन्निभम् । असौ पुष्करपणेन लक्ष्मणः पाययिष्यति ॥ १७॥ स्थूलान गिरिगुहाशय्यान् वरा हान वनचारिणः । अर्पा लोभादुपावृत्तान् वृषभानिव नर्दतः ॥ १८॥ रूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम ॥ १९॥ सायाह्ने विचरन राम विटपीन माल्यधारिणः । शीतोदकं च पम्पाया दृष्ट्वा शोक विहास्यसि ॥२०॥ सुमनोभिश्चितांस्तत्र तिलकानक्तमालकान् । उत्पलानि च फुल्लानि पङ्कजानि च राघव ॥२१॥ न तानि कश्चिन्मा ल्यानि तत्रारोपयिता नरः। न च वै म्लानतां यान्ति न च शीर्यन्ति राघव ॥२२॥ मतङ्गशिष्यास्तत्रासऋषयः सुसमाहिताः। तेषां भाराभितप्तानां वन्यमाहरतां गुरोः ॥२३॥ ये प्रपेतुर्महीं तूर्ण शरीरात्स्वेदबिन्दवः । तानि
जातानि माल्यानि मुनीनां तपसा तदा । स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव ॥ २४ ॥ विकासहेतुत्वात् सायाह्न इत्युक्तम् ॥२०॥ सुमनोभिः चितान निरन्तरान् । उत्पलानि इन्दीवराणि दृष्ट्वा शोक विहास्यसीत्यत्राप्यनुषज्यते ॥२१॥ आरोपयिता गृहीत्वा ग्रथिता । वनविस्तारात्पुष्पबाहुल्याच्च तानि म्लानतां न यान्ति । न शीर्यन्ति न शीर्यन्ते, शीर्णदलानि न भवन्तीत्यर्थः । मतङ्ग शिष्यप्रभावादा अनारोपणम् ॥ २२॥ अग्राह्यत्वाम्लानत्वादौ निमित्तमाह-मतङ्गेति। सार्घश्लोकद्वयमेकान्वयम् । मतङ्गो नाम महाप्रभावो महर्षिः तत्र तथोक्ताः ॥ १४ ॥ १५ ॥ भृशमिति । ते तान्मत्स्यान खादतस्ते जलं पाययिष्यतीति सम्बन्धः ॥ १६-१९ ॥ सायाह्न इत्यादि श्लोकद्वयमेकं वाक्यम् । एतान् सर्वान् दृष्ट्वा शोक विहास्यतीति सम्बन्धः ॥ २० ॥२१॥ न तानीति । माल्यानि पुष्पाणि । आरोपयिता गृहीत्वा धारयिता नास्ति ॥ २२ ॥ अम्लानत्वादी कारणं दर्शयति-मतङ्गशिष्या इति । गुरोः गुर्वर्थम् । वन्यमाहरताम् अत एव भाराभितप्तानां वन्यपदार्थभारेण श्रान्तानामित्यर्थः। तानीति विधेयप्राधान्यानपुंसक
For Private And Personal Use Only