________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
NI बा.रा.भू.
पुष्परसं सवन्तीति मधुम्रवाः । सर्वैः काम्यमानानि फलानि येषां ते सर्वकामफलाः। तवः षट् ऋतवः वसन्तीति शेषः। चैत्ररथ कुधराद्याने तत्र बने टी.आ.. ॥१७॥ महाविटपधारिणः । “विस्तारो विटपोऽस्त्रियाम्" इत्यमरः । पादपा इत्यनुपङ्गः । तत्र मेघपर्वतसनिभाः तत्र विद्यमानाः मेघपर्वता इव स्थिता
इत्यर्थः ॥ ७-९॥ चक्रमन्ताविति श्लोकद्वयमेकं वाक्यम् । चक्रमन्तौ चक्रममाणो पुनःपुनः गच्छन्ती । पुष्करिणी सरसीम् । अशर्करा
फलभारानतास्तत्र महाविटपधारिणः । शोभन्ते सर्वतस्तत्र मेघपर्वतसन्निभाः॥८॥ तानारुह्याथ वा भूमौ पातयित्वा यथासुखम् । फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति ॥ ९॥ चमन्तौ वरान् देशान् शैलाच्छैलं वनादनम्। ततः पुष्करिणी वीरौ पम्पा नाम गमिष्यथः ॥१०॥ अशर्करामविभ्रंशां समतीर्थामशैवलाम् । राम सञ्जातवालूका कमलोत्पलशालिनीम् ॥ ११॥ तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव । वल्गुस्वना निकूजन्ति पम्पासलिल गोचराः ॥ १२ ॥ नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः । घृतपिण्डोपमान स्थूलांस्तान द्विजान भक्ष यिष्यथः॥१३॥ रोहितान वक्रतुण्डांश्च नडमीनांश्च राघव । पम्पायामिषुभिर्मत्स्यास्तत्र राम वरान् हतान् ॥१४॥ निस्त्वपक्षानयस्तप्तानकृशानेककण्टकान् । तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति॥ १५॥ शर्करारहिताम् । अविभ्रंशाम् अशिथिलतटाम् । समतीर्थाम् अवतारस्थलेतिनिम्रत्वात्यगायत्वरहिताम् । सञातवालूकाम् अपङ्कतया संहतासक ताम् । दीर्घ आर्षः ॥१०॥११॥ तत्रेति । पूवाः मण्डूकाः हंसभेदा वा । कुरराः क्रौञ्चभेदाः । वल्गुस्वराः रम्यस्वनाः । सलिलगोचराः सलिल चारिणः। गोचरः सञ्चारः ॥ १२ ॥ वधस्याकोविदाः वधमजानानाः । नोद्विजन्ते न बिभ्यति । द्विजा इति शेषः, तानित्यनुवादात् ॥ १३ ॥रोहिता नित्यादिश्लोकद्वयम् । रोहितान् पितृप्रियमत्स्यभेदान् । वक्रतुण्डान वक्रमुखमत्स्यान् । नडमीनान् नडाख्यतृणविशेषस्तम्बसञ्चारशीलान् मत्स्यान् वरान् श्रेष्ठान् अयस्तप्तान् अयःशुलाग्रप्रोततया पक्कान् । कृशाश्चानेककण्टकाश्च ते न भवन्तीत्यकृशानेककण्टकाः तान् ॥ १४ ॥ १५ ॥ १५"
देवेशोद्याने ॥ ७-९ ॥ चक्रमन्तौ चरन्तौ । असङ्कटा तहमृगसङ्कीर्णतया असङ्कुचिताम् । अविभ्रंशांतटयोभ्रंशरहिताम् । समतीर्था समावतारप्रदेशाम्॥१०-१२॥ Vवधस्याकोविदाः वधमजानानाः क्रोधाः ॥ १३ ॥ अयस्तप्तान शूलपोतदग्धान अकुशानेककण्टकान कुशाः कुशवत्तीक्ष्णाः अनेककण्टका येषां न विद्यन्ते
For Private And Personal Use Only