________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
-
-
-
मिति सीतायाः शुद्धत्वप्रतिज्ञा॥२७॥इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्विसप्ततितमः सर्गः॥७२॥ । अथ कबन्धः सुग्रीवस्थानमार्ग दर्शयित्वा गत इत्याह त्रिसप्ततितमे-निदर्शयित्वेत्यादि । सीतायाः प्रतिपादने प्रापणे निमित्ते । निदर्शयित्वा प्रदर्य
त्वा च च्छन्दसि" इति क्त्वाप्रत्ययः । पूर्वोक्तमुपायमिति शेषः ॥३॥ ऋश्यमूकमार्ग सचिह्न दर्शयति-एप इति। शिवः शोभनः । शोभनत्व निदर्शयित्वा रामाय सीतायाः प्रतिपादने । वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरबवीत् ॥ १॥ एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः। प्रतीची दिशमाश्रित्य प्रकाशन्ते मनोरमाः॥ २ ॥ जम्बूप्रियालपनसप्लक्षन्यग्रोध तिन्दुकाः । अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः॥ ३ ॥ धन्वना नागवृक्षाश्च तिलका नक्तमालकाः । नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः। अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः ॥४॥ तानारुह्याथवा भूमौ पातयित्वा च तान् बलात् । फलान्यमृतकल्पानि भक्षयन्तो गमिष्यथः॥ ५॥ तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम् । नन्दनप्रतिमं चान्यत् कुरवो ह्युत्तरा इव ॥६॥ सर्वकामफला वृक्षाः पादपास्तु मधुस्रवाः । सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा ॥७॥ मेवाह-योति । द्रुमान् विशेषयति सार्घद्रयेन-जम्वित्यादि । प्रियाला धनुःपटाख्या वृक्षाः ।पक्षाः वटभेदाः। तिन्दुकाः स्फूर्जकाख्या वृक्षाः। धन्वनाः धवाः । नागवृक्षाः नागकेसराः । तिलकाः क्षुरकवृक्षाः। नक्तमालकाः चिरिबिल्वाख्याः। करवीराः प्रतिहासाख्या वृक्षाः । अग्रिमुख्या भल्लातकीवृक्षाः। सुरक्ताः रक्तचन्दनाः। पारिभद्रकाः निम्बाः ॥२-४॥ तानिति । पातयित्वा नमयित्वा तानारुह्य अथवा भूमौ तान् पातयित्वा वेत्यन्वयः॥५॥ तदिति । तदनमतिक्रम्य नन्दनप्रतिममन्यद्वनं पश्यतमिति शेषः। उत्तरकुरुसाम्यं सर्वकामसमृद्ध्या ॥६॥ तदनं वर्णयति त्रिभिः-सर्वेत्यादि । मधु| सम्बन्धः । अनेन ज्ञायते सर्वदिक्षु रावणालयाः सन्ति, तत्र किंदिस्थरावणालये इति ज्ञातुं सर्वदिग्वचनम् ॥ २५-२७ ॥ इति श्रीमहेश्वरतीर्थविरचिताया श्रीरामा यणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां द्विसप्ततितमः सर्गः॥ ७२ ॥ निदर्शयित्वेति । सीतायाः प्रतिपादने प्रापणे निमित्ते । निदर्शयित्वा सुग्रीवसख्यरूप पूर्वोक्तमुपायमिति शेषः । पुनर्वाक्यमब्रवीदिति सम्बन्धः॥१॥ तदेवाह-पष इति ॥ २॥ प्रियालपनसेत्यादि । प्रियाला धतुष्पटः। तिन्दुक: अमिमुख्यः । सुरक्ता रक्तचन्दनम् । पारिभद्रः मन्दारः॥३॥४॥ पातयित्वा नमयित्वा ॥५॥६॥ सर्वकामफलाः सर्वकामान् कामितान् पदाथोन फलन्तीति तथा । चेत्ररथे
For Private And Personal Use Only