________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
तान् मामकान् प्रतिगृह्णीष्व, मत्कृतानि सर्वाणि सुकृतानि त्वदर्पितानि सन्त्विति भावः । सर्वत्रातिथिसत्कारः प्रातीतिकोऽर्थः । कर्मणां भगवदर्पणं नाम फलसङ्गत्यागकर्तृत्वत्यागपूर्वकं भगवत्केर्णतयानुष्ठानम् ॥ ३१ ॥ ३२॥ तनि०-बायाः ब्रह्मलोकभवाः भोगप्रदेशाविशेषाः । नाकपृष्ठयाः स्वर्गलोकभवाः भोगप्रदेशविशेषाः । उभयत्र “दिगादियो यत्" इति यत् । प्रतिगृह्णीष्व मामकानिति सर्वेश्वरे फलसमर्पणाभिप्रायेणोक्तम् । अतिथिसत्कारविवक्षा पाती
अहमेवाहरिष्यामि सर्वलोकान महामुने । आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ ३३ ॥ राघवेणैवमुक्तस्तु शकतुल्यबलेन वै । शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः ॥ ३४ ॥ इह राम महातेजास्सुतीक्ष्णो नाम धार्मिकः । वसत्यरण्ये धर्मात्मा स ते श्रेयो विधास्यति॥३५॥ सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् । रमणीये वनोद्देशे
स ते वासं विधास्यति ॥३६॥ इमां मन्दाकिनी राम प्रतिस्रोतामनुव्रज । नदी पुष्पोडुपवहां तत्र तत्र गमिष्यसि ॥३७॥ तिकी । उत्तरत्र-" मत्प्रसादात् सभार्यस्त्वं विहरस्व सलक्ष्मणः" इतीदमपि फलसमर्पणाभिप्रायमेव ॥ ३१ ॥ तदिदमङ्गीकुर्वन् तस्य वाचिककैङ्कय नियम यति-अहमेवेति । आहरिष्याम्येव स्वीकरिष्याम्येव । सर्वलोकान् त्वया मय्यर्पितान् । इह कानने प्रदिष्टं त्वया निर्दिष्टम् आवासं विच्छामि । तुशब्देन
त्वदभिमतदेश एवं वास इत्युच्यते । “सा काशीति न चाकशीति भुवि सायोध्यति नाध्यास्यते" इत्यादिकमिहानुसन्धयम् ॥३३॥ तनि-अहमेवा पहरिष्यामि संपादयामि, प्रदास्यामीत्यर्थः । “इष्टापूर्त बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः" इति श्रुतेः । “लभते च ततः कामान् मयैव विहितान हितान"
इति भगवदुक्तेश्च ॥ ३३ ॥ राघवेणेति । महाप्राज्ञ इत्यनेन मृगरूपमारीचनिरसनं मनसि कृतवानिति सूचयति ॥ ३४ ॥ धार्मिकः धर्मचारी। धर्मात्मा । धर्मबुद्धिः । वसति अदूर इति शेषः॥३५॥३६॥ मन्दाकिनीशब्दः पुण्यनदीमात्रे मुनिभिरुपचर्यते अत एव चित्रकूटेप्युक्तम् । प्रतिस्रोतामिति टाबार्पः। प्रतिस्रोतसं कृत्वाऽनुसृत्य व्रज, नद्यां पूर्ववाहिन्यां पुरुषेण पश्चिमाभिमुखतया गमने प्रतिस्रोतस्त्वं भवति । पुष्पोडुपवहाम् उडुपः प्लवः उडुपाकारपुष्प निति सर्वेश्वरे श्रीरामे फलसमर्पणाभिप्रायेणोक्तम् । अतिथिसत्कारविवक्षा प्रातीतिकी । अहमेवाहरिष्यामीति समर्पितफलस्वीकारोक्तिः । प्रातीतिकार्थस्त्वहमेव सर्वान लोकानाहरिष्यामि नतु स्वत्तः । प्रतिग्रहीष्यामीति क्षत्रियस्य प्रतिग्रहानहत्वादित्यभिप्रायः। प्रदिष्टं प्रदर्शितं,त्वयेति शेषः॥३१-३६॥ प्रतिस्रोतामित्यावन्तत्व
For Private And Personal Use Only