SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पश्येत्यादि । राक्षसस्य वशंगतत्वेन विवशमिति योजना । विनिर्युक्तः वियुक्तः । एतस्यैव विवरणं मामिति । भूतबलिं भूतस्य कबन्धस्य बलिम् ॥ ३८ ॥ ३९ ॥ अधीत्येकार्धम् ॥ ४० ॥ प्रतिलभ्येति । तत्र मह्याम् ॥ ४१ ॥ लक्ष्मणेनेति । स्पष्टम् ॥ ४२ ॥ एतस्मिन्निति । एतस्मिन्नन्तरे लक्ष्मणाश्वासनावसरे ॥ ४३ ॥ पश्य मां वीर विवशं राक्षसस्य वशं गतम् । मयैकेन विनिर्युक्तः परिमुञ्चस्व राघव ॥ ३८ ॥ मां हि भूतबलिं दत्त्वा प्लायस्व यथासुखम् ॥ ३९ ॥ अधिगन्तासि वैदेहीमचिरेणेति मे मतिः ॥ ४० ॥ प्रतिलभ्य च काकुत्स्य पितृ पैतामहीं महीम् । तत्र मां राम राज्यस्थः स्मर्तुमर्हसि सर्वदा ॥४१॥ लक्ष्मणेनैवमुक्तस्तु रामः सौमित्रिमब्रवीत् । मास्म त्रासं कृथा वीर न हि त्वादृग्विषीदति ॥ ४२ ॥ एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ । पप्रच्छ घन निर्घोषः कबन्धो दानवोत्तमः ॥ ४३ ॥ कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ । घोरं देशमिमं प्राप्तौ मम भक्षा वुपस्थितौ ॥ ४४ ॥ वदतं कार्यमिह वां किमर्थं चागतौ युवाम् । इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः ॥ ४५ ॥ सबाणचापखड्डौ च तीक्ष्णशृङ्गाविवर्षभौ । ममास्यमनुसम्प्राप्तौ दुर्लभं जीवितं पुनः ॥ ४६ ॥ तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः । उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥ ४७ ॥ Acharya Shri Kailassagarsun Gyanmandir काविति । भक्षौ आहारौ ॥ ४४ ॥ वदतमिति । इह वने वां युवयोः कार्ये वदतम् । लोण्मध्यमपुरुषद्विवचनम् । वामिह वने किं कार्य किं कर्तव्यं किमर्थ कस्य प्रयोजनाय आगतौ न किमप्यस्त्यत्र वां प्रयोजनं प्रत्युतास्मत्प्रयोजनमेव सिद्धमित्याह इममिति । इह तिष्ठतः ममेति शेषः । क्षुधार्तस्य मम सम्बन्धिनमिमं देशमनुप्राप्तावित्यनेन मम क्षुन्निवृत्त्यर्थमेव वामागमनमिति भावः ॥ ४५ ॥ आगमने आवयोः का हानिरित्यत्राह - सवाणेति ॥ ४६ ॥ तस्येति । विनिर्युक्तः वियुक्तः । परिमुखस्व, मामिति शेषः ॥ ३८ ॥ एतस्यैत्र विवरणम्-मामिति । भूनवलिं भूतस्य कबन्धस्य बलिम् ॥ ३९ ॥ अधिगन्ता माप्स्यति ॥ ४०-४२ ॥ देवेन मम चक्षुषो देवगत्या मम चक्षुर्गोचरौ ॥ ४४ ॥ इद बने । वां युवयोः कार्ये वदतम्। क्षुधार्तस्य मम सम्बन्धिनमिमं देशं किमर्थमागतो ।। ४५ ।। ४६ ।। परिशुष्यता मुखेनोपलक्षितं लक्ष्मणम् ॥ ४७ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy