________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
असौ रामः इह मत्समीपे उपयाति । उपयानसौ यावति काले मां नाभिभाषते तावत्स्वप्रतिज्ञां निष्ठां समाप्ति नयतु । “निष्ठा निष्पत्तिनाशान्ताः" इत्य|| मरः। मया असम्भाषमाण एव स्वप्रतिज्ञां निवर्तयतु, मया सम्भाषणेऽस्य देवत्वप्रकटनं स्यादिति भावः । सम्भाषणाभावपि दर्शनमस्त्वित्यत आह । तत इति। ततः स्वप्रतिज्ञानिष्ठानयनानन्तरं मां द्रष्टुमर्हति स मां पश्यतु ॥२२॥ भवान् तं पश्यत्वित्यत्राह-जितवन्तमिति । रावणं जितवन्तम्, अत एव ।
इहोपयात्यसौ रामो यावन्मां नाभिभाषते । निष्ठां नयतु तावत्तु ततो मां द्रष्टमर्हति ॥ २२ ॥ [ तावद्गच्छामहे शीघ्रं यावन्मां नाभिभाषते ] जितवन्तं कृतार्थं च द्रष्टाहमचिंरादिमम् । कर्म ह्यनेन कर्त्तव्यं महदन्यैस्सुदुष्करम् । निष्पादयित्वा तत्कर्म ततो मां द्रष्टुमर्हति ॥२३॥ इति वची तमामन्त्र्य मानयित्वा च तापसम् । रथेन हरियुक्तेन ययौ दिवमरिन्दमः ॥ २४ ॥ प्रयाते तु सहस्राक्षे राघवस्सपरिच्छदम् । अग्निहोत्रमुपासीनं शरभङ्गमुपागमत्
॥ २५॥ तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः । निषेदुस्समनुज्ञाता लब्धवासा निमन्त्रिताः ॥ २६ ॥ कृतार्थ कृतदेवप्रयोजनम्, इममहमचिराद् द्रष्टा द्रष्टास्मि । दर्शनसम्भाषणाभ्यां देवत्वप्रकटने का हानिरित्यवाह कर्मेति । हि यस्मादन्यैर्देवैर्दुष्करं महत्कर्म रावणवधादिकम् अनेन मानुषवेपेण कर्तव्यं तस्मादित्यर्थः ॥२३॥ इति उक्तप्रकारेण । तापसं तापसवेषम् । मानयित्वा बहुमान्य । तं शरभङ्गमामन्त्र्य । हरियुक्तेन अश्वयुक्तेन रथेन दिवं ययौ ॥२४॥ प्रयाते विति रामागमनोद्योगकाल एवेन्द्रस्य प्रयातत्वात् । सपरिच्छदं स्त्रीभ्रातृरूपपरिवारसहितं यथा भवति तथा । अग्निहोत्रं वह्निम् । उपासीनं तत्र प्रवेशार्थमुपतिष्ठन्तं शरभङ्गमुपागमत् ॥२५॥ समनुज्ञाताः आसनाय कृतानुमतिकाः । लब्धवासाः शरभङ्गमङ्गीकृत्य विविक्ते एकान्ते परमरहस्यत्वात् ॥ २१ ॥ रामः इहोपयाति असौ यावन्मां नाभिभाषते तावत्कर्मणो निष्ठा निवृत्ति नयतु, ततो मां द्रष्टुमर्हति । ममाभिभाषणात्पूर्वमेव अनेन रावणवधरूपं कर्म कर्तव्यम्, ततो मां द्रष्टुमईति तदा मयि तस्य परमकटाक्षवीक्षणस्य स एवावसर इत्यर्थः ॥ २२ ॥ अनेनान्येस्सुदुष्करं महत्कर्म रावणवधरूपं कर्म कर्तव्यम् । कृतार्थ कृतदेवप्रयोजनं विजयिनं द्रष्टा द्रष्यामि, रावणवधानन्तरं दृष्ट्वा कृतार्थों भविष्यामीति| भावः ॥ २३-२५ ॥ रामस्तस्य पादौ संगृह्येति रामस्येश्वरावतारत्वेपि क्षत्रियरूपेणावतीर्णत्वात् 'यद्यदाचरति श्रेष्ठः' इति न्यायेन क्षत्रियमर्यादा प्रवर्त
For Private And Personal Use Only