SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वा.रा.भू. ॥ १३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वसनाः रक्तकान्तियुक्तवस्त्राः, एवंभूता य इमे तिष्ठन्तीत्यन्वयः । येषां सर्वेषामुरोदेशेषु हाराः ज्वलनसन्निभाः अभिवच्छुक्कुभास्वराः दृश्यन्ते । रूपमित्य त्रापि ये इत्यध्याहार्यम् । पञ्चविंशतिः वर्षाः परिमाणमस्य पञ्चविंशतिवार्षिकम् । “ तदस्य परिमाणम् " इति ठक् । “ वर्षस्याभविष्यति” इत्युत्तरपद वृद्धिः । एवम्भूतं रूपं शरीरं ये विभ्रति । “अद्भ्यस्तात्" इत्यदादेशः । पञ्चविंशतिवार्षिकमिति यौवनावस्थोच्यते । " कौमारं स्यात्पञ्चदशाद्यौवनं तु ततः परम् ” इत्युक्तेः । त इमे सुरा इत्यध्याहार्यम् ।। १५-१७ ॥ तत्र युक्तिमाह एतद्धीति । एतत् पञ्चविशतिवार्षिकं वयः शरीरावस्था देवानां विस्तीर्णविपुलोरस्काः परिघायतबाहवः । शोणांशुवसनास्सर्वे व्याघ्रा इव दुरासदाः ॥ १६ ॥ उरोदेशेषु सर्वेषां द्वारा ज्वलनसन्निभाः । रूपं विभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् ॥ १७ ॥ एतद्धि किल देवानां वयो भवति नित्यदा । यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः ॥ १८ ॥ इहैव सह वैदेह्या मुहूर्ते तिष्ठ लक्ष्मण । यावज्जानाम्यहं व्यक्तं क एष द्युतिमान् रथे ॥ १९ ॥ तमेवमुक्त्ता सौमित्रिमिव स्थीयतामिति । अभिचक्राम काकुत्स्थः शरभङ्गा श्रमं प्रति ॥ २० ॥ ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः । शरभङ्गमनुप्राप्य विविक्त इदमब्रवीत् ॥ २१ ॥ नित्यदा भवति । नित्यदेति निपातः । किलेति प्रसिद्धौ । यथेमे वसनाभरणादिभिश्चारुदर्शनाः तथा किल देवा इति योजना ॥ १८ ॥ रथे इत्यनेन तदानीं रामं दृष्ट्वा रथमारूढ इत्यवगम्यते । यावज्जानामि ज्ञास्यामि । " यावत्पुरानिपातयोर्लट् ” इति लद् । व्यक्तम् अनुमितिं विना स्पष्टं प्रत्यक्षेण ज्ञास्यामीत्यर्थः ॥ १९ ॥ विरहा सहिष्णुतया अनुव्रजन्तं लक्ष्मणं पुनः प्रदिश्य जगामेत्याह- तमेवमिति ॥ २० ॥ अनुप्राप्य एकान्तवचनश्रवणाय समीपमागत्य । विविक्ते रहसि वक्ष्यमाणस्यातिगोप्यत्वात् ॥ २१ ॥ विस्तीर्णेति । अतिशयेन विशालानि उरांसि येषाम् । शोणाश्मवसनाः पद्मरागसदृशवसनाः । शोणांशुवसना इति पाठे शोणा अंशवो वसनानि च येषां ते ॥ १६ ॥ १७ ॥ इमे देवा इदानीं यथा यादृग्वयस्का इव दृश्यन्ते एतदेव देवानां नित्यदा वयो भवतीति सम्बन्धः ॥ १८ ॥ इहैवेत्यादिश्लोकद्वयमेकं वाक्यम् । हे लक्ष्मण ! वैदेह्या सह इहैव तिष्ठ । आवामपि त्वया साकमागच्छाव इत्यत आह यावदिति । रथे रथसमीपे एष क इति यावजानामि तावत्पर्यन्तमिव स्थीयता मिति तं सौमित्रिमेवमुक्त्वा राघवः शरभङ्गाश्रमं प्रति स्वयमेवाभिचक्राम गन्तुमुपक्रान्त इति सम्बन्धः ॥ १९ ॥ २० ॥ शरभङ्गमनुज्ञाप्य वक्ष्यमाणवचनश्रवणेन टीका शोणाश्ववसना इति पाठे शोणा अश्वा वसनानि च येषां ते ॥ १६ ॥ For Private And Personal Use Only टी.आ.कां. स० ५ ॥ १३ ॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy