________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
तुल्याकारैः। ददशेत्यनुषङ्गः॥६॥ हरिभिः श्यामैः । यद्वा वाजिभिः वेगवद्भिः हरिभिः अश्वैः । तस्य इन्द्रस्य ॥७॥ पाण्डरात्रस्येव घना अधिका प्रख्या कान्तिर्यस्य तदिति श्वेत्ये दृष्टान्तः। चन्द्रमण्डलसन्निभमिति वृत्ततायाम् । चित्रमाल्यैर्लम्बमानकुसुमसरैरुपशोभितम् ॥८॥ चामरव्यजने चामररूप व्यजने । महाधने बहुमूल्ये । मूर्ध्नि तस्येति शेषः । अपश्यदित्यनुषङ्गः॥ ९॥ ईडिरे तुष्टुवुः । ईडमानानपश्यदित्यर्थः ॥ १०॥ सहेत्यादिसार्घः श्लोक
हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् । ददर्शादूरतस्तस्य तरुणादित्यसन्निभम् ॥७॥ पाण्डराभ्रघनप्रख्यं चन्द्र मण्डलसन्निभम् । अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् ॥८॥ चामरव्यजने चाय्ये रुक्मदण्डे महाधने। । गृहीते वरनारीभ्यां धूयमाने च मूर्द्धनि ॥ ९॥ गन्धर्वामरासद्धाश्च बहवः परमर्षयः । अन्तरिक्षगतं देवं वाग्भि रख्याभिरीडिरे ॥ १०॥ सह सम्भाषमाणे तु शरभङ्गेण वासवे । दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् ॥११॥ रामोऽथ रथमुद्दिश्य लक्ष्मणाय प्रदर्शयन् ॥ १२॥ अर्चिष्मन्तं श्रिया जुष्टमद्भुत पश्य लक्ष्मण । प्रतपन्तमिवा दित्यमन्तरिक्षगतं रथम् ॥ १३॥ ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः। अन्तरिक्षगता दिव्यास्त इमे हरयो
ध्रुवम् ॥ १४ ॥ इमे च पुरुषव्याघ्रा ये तिष्ठन्त्यभितोरथम् । शतं शतं कुण्डलिनो युवानः खड्गपाणयः ॥१५॥ एकान्वयः । तत्र तदानीम् । राम इति पदस्यावृत्तिः क्रियाभेदात् अतो न पुनरुक्तिः। उद्दिश्य हस्तेन निर्दिश्य शरभङ्गेण साकं वासवे सम्भाषमाणे सति तत्र समये रामः शतक्रतुं दृष्ट्वा तदीयरथं रामः लक्ष्मणाय उद्दिश्य प्रदर्शयन् सन् अथ लक्ष्मणमत्रवीदिति योजना ॥११॥ १२॥ आर्चिष्मन्तं सतेज. स्कम् । श्रिया कान्त्या ॥ १३॥ पुरुहूतस्य यज्वभिर्बहुशो हूतस्य । नः अस्माभिः । इमे हरितवर्णाः हरयः अश्वाः ते । यदा त इमे शक्रस्य हरय। इत्यन्वयः॥ १४ ॥ इमे चेत्यादियोकत्रयमेकं वाक्यम् । शतं शतमिति प्रतिदिशमिति शेषः। विस्तीर्णविपुलोरस्काः अत्यन्तविशालोरस्काः। शोणांश पाण्डरानधनप्रख्यं पाण्डरावस्येव घना अधिका प्रख्या कान्तिर्यस्य तथा ॥ ८-१३ ॥ य इति । पुरुहूतस्य पुरु भूयिष्ठं यथा भवति तथा यज्वाभिईयत इति । तथा । नः अस्माभिः ॥ १४ ॥ इम इति अष्टदिक्विति शेषः । अत्र शतशब्दोऽनेकवाची ॥१५॥ टीका-अर्चिष्मन्तम् प्रतपन्तमादित्यमित्र स्थितम् ॥ १३ ॥
|
For Private And Personal Use Only