________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersun Gyanmandir
टी.आ.का.
रा.भ ॥१६॥
व्यसनं वागुरव व्यसनवागुरा। "वायुरा मृगबन्धिनी" इत्यमरः॥२७॥ पितुर्वयस्यः सखा ॥ २८ ॥ पितरीव नेहः पितृलेहः ॥ २९ ॥ रामः वाचं विमुच्य उक्त्वेत्यर्थः। अस्मिन् सर्गे एकोनविंशच्छलोकाः ॥ ३० ॥ इति श्रीगोविन्दराजविरचितं श्रीरामायणभूपर्ण रत्नमखालख्यान आरण्यकाण्ड व्याख्याने सप्तषष्टितमः सर्गः ॥ ६७ ॥ अथ भगवत्कार्यार्थ त्यक्तशरीरस्य गृधराजस्य मोक्षपदप्रापणमष्टपष्टितम-गम इत्यादि । रौद्रण रावणेन । मित्र, नास्त्यभाग्यतरो लोके मत्तोऽस्मिन् सचराचरे । येनेयं महती प्राप्ता मया व्यसनवागुरा ॥२७॥ अयं पितृवयस्यो मे गृध्रराजो जरान्वितः । शेते विनिहतो भूमौ मम भाग्यविपर्ययात् ॥ २८॥ इत्येवमुक्त्वा बहुशो राघवः सह लक्ष्मणः । जटायुषं च पस्पर्श पितृस्नेहं विदर्शयन् ॥२९॥ निकृत्तपक्षं मधिरावसिक्तं स गृध्रराज परिरभ्य रामः। व मैथिली प्राणसमा ममेति विमुच्य वाचं निपपात भूमौ॥३०॥इत्या-श्रीमदारण्यकाण्डे सप्तपष्टितमः सर्गः॥६७ रामः सम्प्रेक्ष्य तं गृधं भुवि रौद्रेण पातितम् । सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत् ॥ १॥ ममायं नूनमर्थेषु यतमानो विहङ्गमः । राक्षसेन हतः सङ्ख्ये प्राणांस्त्यक्ष्यति दुस्त्यजान ॥२ ॥ अयमस्य शरीरेऽस्मिन् प्राणी लक्ष्मण विद्यते। तथाहि स्वरहीनोऽयं विक्कवः समुदीक्षते ॥ ३ ॥ जटायो यदि शक्नोषि वाक्यं व्याहरितुंपुनः।
सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ॥ ४॥ सम्पन्नं सर्वजनमित्रमित्यर्थः । यदा परनिपातः सम्पन्नमित्रम् , अत्यन्तरामविषयसौहार्दयुक्तमित्यर्थः ॥ १॥ अप्पिति निमित्तसप्तमी । मम प्रयोजनार्थ मित्यर्थः। सङ्घचे युद्धे ॥२॥ अयं प्राणः सूक्ष्मप्राणः । स्वरहीनः हीनस्वरः । विक्लवः विह्वलः ॥ ३॥ व्याहरितुं व्याहर्तुम् । वधं वधप्रकारम् ॥ ४॥ जनिततापनिवृत्यर्थमिति शेषः । सोपि सरिता पतिः मम अलक्ष्म्याः अभाग्यात् विशुप्पेदित्यर्थः ॥२६॥ येन अभाग्येन ॥ २७ ॥२८॥ इनीति । पितृस्नेह पितरीव स्नेहम् ॥ २९ ॥३०॥ इति श्रीमहेश्वरतीयविरचितायो श्रीरामायणनत्वदीपिकाख्यायामारण्यकाण्टुरयास्पायर्या सप्तपष्टिनमः सर्गः ॥६७ ॥ राम इति । रोद्रेण रक्षसा । अनेन रक्षसां तमामाधान्यमेवेति सचितम् । मित्रसम्पन्न मित्रत्वेन सम्पन्नम् । सर्वजनेषु मैच्या युक्तम ॥१॥२॥ अपमित्ति । नया अतिचित्रमाण इव स्वरहीनो विकलेक्षणश्च ॥३॥ व्याहरितुं व्याहर्तुम् । वधं वधप्रकारम् ॥ ४॥
१६१॥
For Private And Personal Use Only