SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir षा.रा.भृ. अभ्यपतत् अभिमुखं गतः । समुद्रान्तां समुद्रपर्यन्ताम् ॥ १३॥ दशरथात्मजमिति सम्बन्धोक्तिः ॥१४॥ यथा महीपध्यन्वेपिणः प्रतिवनमन्वपन्तेत तथा यामस्मिन् विस्तीर्णे वनेऽन्वेषसि । “ए” गतौ" इत्यस्माद्यत्ययेन परस्मैपदम् । नित्यं प्राणसमेत्युक्ता सा देवी मम प्राणाश्च उभयं रावणेन । स०६७ हतम्, मम प्राणान् हतप्रायान् कृत्वा सीतां रावणो हतवानित्यर्थः । खरवधादिना रामबलं ज्ञात्वाप्यस्थाने भयशङ्कितया रामस्यायुः प्रार्थयते इत्युक्त्वाऽभ्यपतद गृधं सन्धाय धनुषि क्षुरम् । क्रुद्धो रामः समुद्रान्ता कम्पयन्निव मेदिनीए ॥१३॥ तं दीनं दीनया वाचा सफेनं रुधिरं वमन् । अभ्यभाषत पक्षी तु राम दशरथात्मजम् ॥१४॥ यामोषधिमिवायुष्मन्नन्वेषसि महावने । सा देवी मम च प्राणा रावणेनोभयं हृतम् ॥ १५॥ त्वया विरहिता देवी लक्ष्मणेन च राघव । ह्रियमाणा मया दृष्टा रावणेन बलीयसा ॥ १६॥ सीतामभ्यवपन्नोहं रावणश्च रणे मया । विध्वंसितरथश्चात्र पातितो धरणीतले ॥ १७॥ एतदस्य धनुर्भग्रमेतदस्य शरावरम् । अयमस्य रथो राम भनः साझामिको मया ॥ १८ ॥ अयं तु सारथिस्तस्य मत्पक्षनिहतो युधि ॥ १९ ॥ परिश्रान्तस्य मे पक्षौ छित्त्वा खड्ड्रेन रावणः । सीतामादाय वैदेहीमुत्पपात विहायसम् ॥ २०॥ रक्षसा निहतं पूर्व न मां हन्तुं त्वमर्हसि ॥ २० ॥ रामस्तस्य तु विज्ञाय बाष्पपूर्णमुखस्तदा । द्विगुणीकृततापातः सीतासक्तां प्रियां कथाम् ॥ २२॥ आयुष्मन्निति ॥ १५ ॥ त्वयति स्पष्टम् ॥ १६॥ अभ्यवपत्रः आभिमुख्यन गतः । ह्रियमाणां सीतामवलोक्य तदभिमुखमागत इत्यर्थः । रावणश्च विध्वंसितरथः सन् अत्र धरणीतले पातितः, स्थाईशितः इत्यर्थः ॥१७॥ भग्नमेतद्धनुः अस्य रावणस्य सम्बन्धि । एवमुत्तरत्रापि योज्यम् । शरावरं वर्म तूणीरं वा ॥ १८॥ अयं त्वित्यर्धमेकम् ॥ १९॥ वैदेही जनकन सम्यक परिपापिताम् ॥२०॥ रक्षसेत्यर्धमेकम् ॥२१॥ तस्य गृध्रस्य ॥१६॥ यामिति । ओषधि दिग्यौषधिलतामिव ॥१५॥१६॥ सीतामिति । सीतामभ्यवपन्नोऽहं सीतां मोचयितुमभिगनवानस्मीत्यर्थः । तदा रावणः पातितः ॥१७॥ शरावर कवचम् ॥१८-२१॥ राम इति । नस्य जटायुषः । विज्ञाय, स्वरूपमिति शेषः । मीनासका सीनाविषयो कथाम् । श्रुत्वेति शेषः । राम इति सार्धश्लोकमेकं वाक्यम् । For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy