________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
तबाह-महासारमिति ॥ १॥ सन्निरोति । स्पष्टम् ॥२॥ पश्येयं पश्येव ॥३॥ तमिति सार्घश्लोक एकान्वयः ॥४॥ इह जनस्थाने । गिरिगतानिश दुर्गाणि, गन्तुमशक्यप्रदेशा इत्यर्थः। निर्दराः विदीर्णपाषाणाः। कन्दराणि पाषाणसन्धयः। गुहाः देवखातबिलानि । युक्तः सन्नद्धः॥५॥६॥न प्रक। म्पन्ते न चञ्चलचित्ता भवन्तीत्यर्थः ॥७॥धुरं क्षुरप्राख्यं शरम् । सीताया अदर्शनात् कोषः॥८॥ कूटः शृङ्गम् । महाभागं महाभाग्यम् । स्वाम्यर्थे ।
सन्निगृह्य महाबाहुः प्रवृत्तं कोपमात्मनः। अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् ॥२॥ किं करिष्यावहे वत्स क वा गच्छाव लक्ष्मण। केनोपायेन पश्येयं सीतामिति विचिन्तय ॥३॥ तं तथा परितापात लक्ष्मणो राममब्रवीत् । इदमेव जनस्थानं त्वमन्वेषितुमर्हसि । राक्षसैर्बहुभिः कीर्ण नानादुमलतायुतम् ॥४॥ सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च । गुहाश्च विविधा घोरा नानामृगगणाकुलाः॥५॥ आवासाः किन्नराणां च गन्धर्वभवनानि च । तानि युक्तो मया साधैं त्वमन्वेषितुमर्हसि ॥६॥ त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभ । आपत्सुन प्रकम्पन्ते वायुवेगैरिवाचलाः॥७॥ इत्युक्तस्तदनं सर्व विचचार सलक्ष्मणः । क्रुद्धो रामः शरं घोरं सन्धाय धनुषि क्षुरम् ॥८॥ ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् । ददर्श पतितं भूमौ क्षतजार्द्र जटायुषम् ॥ ९॥ तं दृष्ट्वा गिरि शृङ्गाम रामो लक्ष्मणमब्रवीत् । अनेन सीता वैदेही भक्षिता नात्र संशयः॥१०॥गृध्ररूपमिदं रक्षो व्यक्तं भवति
कानने । भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम् ॥११॥ एनं वधिष्ये दीप्तास्यैोरैर्बाणैरजिह्मगैः ॥ १२॥ त्यक्तशरीरत्वात् । द्विजोत्तमं पक्षिश्रेष्ठम् । " दन्तविप्राण्डजा द्विजाः" इत्यमरः । क्षतजं रुधिरम् ॥ ९॥ भक्षिता रुधिराईत्वादिति भावः ॥१०॥ गृध्रस्य रूपमिव रूपं यस्य तत्तथा ॥ ११ ॥ एनमित्यर्धमेकं वाक्यम् । अजिझम् अकुण्ठम् अवकं वा गच्छन्तीत्यजिह्मगाः तैः॥१२॥ सन्तीति । निर्दराः शिलोद्भेदमार्गाः । कन्दराणि दर्यः । गुहाः पाषाणसन्धयः । युक्तः सन्नद्धः । इह जनस्थाने ॥ ५-७ ॥ पुरं पुरवनिशितम् ॥ ८-११॥ एनमिति। वधिष्ये इति लक्ष्मणमब्रवीदिति सम्बन्धः ॥ १२-१४ ॥
For Private And Personal Use Only