________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
उदापौरुषं श्रेष्ठपराक्रमम् । इतीव अवन्तं सौमित्रि न चिन्तयामास तद्वचनं नाहतवानित्यर्थः । धृतिं च मुक्तवान् ॥२०॥ इति श्रीगो० श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रिषष्टितमः सर्गः ॥ ६३ ॥ अथ चिह्नविशेपैः सीताहरणनिश्चयश्चतुःषष्टितमेस दीन इत्यादि । लोके कश्चि हीनोपि दीनां वाचं न व्याहरति । इदमर्धमेकं वाक्यम् ॥ १॥ एवमिति । लघुविक्रमः त्वरितपदविन्यासः ॥२॥ तीर्थवतीम् अवतारवतीम् ॥ ३ ॥
इतीव सौमित्रिमुदग्रपौरुषं ब्रुवन्तमातोंरघुवंशवर्धनः।न चिन्तयामास धृतिं विमुक्तवान् पुनश्च दुःखं महदभ्युपा गमत् ॥२०॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥ स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् ॥ शीघ्र लक्ष्मण जानीहि गत्वा गोदावरी नदीम् । अपि गोदावरी सीता पद्मान्यानयितुं गता ॥१॥ एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा । नदी गोदावरी रम्यां जगाम लघु विक्रमः ॥२॥ तां लक्ष्मणस्तीर्थवती विचित्वा राममब्रवीत् ॥३॥ नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ॥४॥ कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी । न ह्यहं वेद तं देशं यत्र सा जनकात्मजा ॥ ५॥ लक्ष्मणस्य वचः श्रुत्वा दीनःसन्तापमोहितः। रामः समभिचक्राम स्वयं गोदावरी नदीम् ॥६॥ स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत् ॥७॥ भूतानि राक्षसेन्द्रेण वधार्हेण हतामिति । न तां शशंसू रामाय तथा गोदावरी नदी ॥८॥
ततः प्रचोदिता भूतैः शंसास्मत्तां प्रियामिति । न तु साभ्यवदत्सीतां दृष्टा रामेण शोचता ॥ ९॥ कोशतः आह्वयतः। मे मत्तः। न शृणोति, सेति शेषः ॥४॥ वेद जानामि ॥५॥६॥ स तामित्यर्धमेकं वाक्यम् ॥७॥ भूतानि वन्यानि। सत्त्वानि दृष्टा । शान्तार्थमिदम् । यथा पूर्व पृच्छयमानानि भूतानि न शशंसुः तथा गोदावरी च न शशंसेत्यर्थः ॥८॥ स्वयं न शशंस भूतैः प्रचोदितापि न शशंसेत्यर्थः ।। देहो यस्य सः। कालयुतं कालोचितम् ॥ १८-२० ॥ इति श्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां त्रिषष्टितमः सर्गः॥६३॥ स दीन इति स्पष्टोर्थः ॥ १॥ लघुविक्रमः अविलम्बितपदन्यासः॥२॥ तीर्थवती जलावतरणयोग्यस्थलवतीम् । यद्वा पुण्योदकवतीम् ॥ ३ ॥ नैनामिति । पना सीताम । तीर्थेषु न पश्यामि । क्रोशतः आह्वयतः मे मम । न शृणोति, वाक्पमिति शेषः ॥ ४ ॥ क्वेशनाशिनी सति दर्शन इति भावः ॥५-८॥ तत इति ।
For Private And Personal Use Only