________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
॥१५॥
अभिप्रयाता गोदावरीमिति शेषः । पङ्कजानीत्यत्राप्यानेतुमित्यनुषज्यते ॥ १४॥ अतिबिभेति अत्यन्तं बिभेति ॥१५॥भो इत्यादित्यस्य सम्बोधनम्।टी.आ.का. लोकस्य कृताकृते जानातीति तथा । सत्यानृतयोः पुण्यपापयोः कर्मणः साक्षिन् ! “ कर्मसाक्षी जगच्चक्षुः" इत्युक्तः । मम प्रिया क्क गता अथवा हतास.. पद्मानना पद्मविशालनेत्रा पद्मानि वानेतुमभिप्रयाता। तदप्ययुक्तं नहि सा कदाचिन्मया विना गच्छति पङ्कजानि ॥ १४ ॥ कामं त्विदं पुष्पितवृक्षषण्डं नानाविधैः पक्षिगणैरुपेतम् । वनं प्रयाता नु तदप्ययुक्तमेकाकिनी साति विभेति भीरुः॥१५॥आदित्य भोलोककृताकृतज्ञ लोकस्य सत्यानृतकर्मसाक्षिन् । मम प्रिया साकगता हृता वा शंसस्व मे शोकवशस्य नित्यम् ॥ १६ ॥ लोकेषु सर्वेषु च नास्ति किञ्चिद्यत्ते न नित्यं विदितं भवेत्तत् । शंसस्व वायो कुलशालिनी तां हृता मृता वा पथि वर्तते वा ॥१७॥ इतीव तं शोकविधेयदेहं रामं विसंज्ञं विलपन्तमेवम् । उवाच सौमित्रिरदीनसत्त्वो न्याये स्थितः कालयुतं च वाक्यम् ॥ १८॥ शोकं विमुञ्चार्य धृति भजस्व सोत्साहता
चास्तु विमार्गणेऽस्याः। उत्साहवन्तो हि नरा न लोके सीदन्ति कर्मस्वतिदुष्करेषु ॥ १९॥ केनचिदपढतेति शंसस्व शंस ॥ १६॥ लोकेष्विति । ते नित्यं यन्न विदितं तत् सर्वेषु नास्ति तस्माच्छंसति ॥ १७ ॥ शोकविधेयः शोकपरवशः कालयुतं कालोचितम् । अदीनसत्त्वः अदीनधृतिः एवमुवाचेत्यन्वयः ॥ १८॥ अस्याः सीतायाः । विमार्गणे अन्वेषणे ॥ १९ ॥ पमाननेति । गच्छति पङ्कजान्यानेतुमिति शेषः ॥१४॥१५॥ लोककृताकृतज्ञ लोकस्य कृताकतव्यापारज्ञ ॥१६॥ लोकेविति । हे वायो ! लोकेषु यत्किञ्चिद्वस्तुजात मस्ति तत्सर्व तव विदितं भवेत् तेन कारणेन तो शंसस्वेत्पन्वयः ॥ १७ ॥ इतीवेति । विसंज्ञमिव विलपन्तमित्यर्थः । शोकविधेयदहें शोकविधेयः शोकाधीनो
स-लोककृताकृतज्ञ बहिः प्रकाशद्वारा कृताकृतहानिन् ! लोकस्य सत्यानूतकर्मसाक्षिन् अन्तः । मूलपुरुषत्वादादित्यं प्रत्युक्तियुक्तेति मावः ॥ १९ ॥ उत्तरत्र वदभिमानिना मस्तैव सर्व कार्य साधयिष्यामीति वायु पृच्छति ॥१७॥
॥१५॥
For Private And Personal Use Only