SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Nadhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir रुधिररूपाणि अशनानि पानानि परिपीतवन्ति नूनम् ॥ १०॥ या विजने वने मया विहीना सा कुररीव क्रौञ्चीव विनादं मुक्तवती । आयतकान्तनेत्रे । त्यनेन तत्काले मदागमनमार्गव्यग्रतोक्ता ॥ ११ ॥ पूर्व गोदावर्या सीतया सह सरसलील विहारो यस्मिन् कृतस्तस्मिन् प्रदेशे गत्वा तदर्शनेन जात पूर्वस्मरणो लक्ष्मणं प्रत्याह-अस्मिन्निति । अस्मिन् एवं शून्यतया स्थिते प्रदेशे हि मया पूर्व निधिलब्धः। मया साधैं प्रणयधारायामहं पण्डितमानी। मया विहीना विजने वने या रक्षोभिराहृत्य विकृष्यमाणा । नूनं विनादं कुररीव दीना सा मुक्तवत्यायतकान्तनेत्रा ॥ ११॥ अस्मिन् मया सार्धमुदारशीला शिलातले पूर्वमुपोपविष्टा । कान्तस्मिता लक्ष्मण जातहासा त्वामाह सीता बहुवाक्यजातम् ॥ १२॥ गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम् । अप्यत्र गच्छेदिति चिन्तयामि नैकाकिनी याति हि सा कदाचित् ॥ १३॥ तादृशोऽहमप्यप्रधानाऽभवं तदीयविदुग्धव्यवहारेषु । उदारशीला पूर्व नगरवासे श्वश्वादिसनिधानेन सङ्कचितविहारा स्थिता, सीतया सार्धमिति युक्तम् ।। साम्प्रतं तु एकान्तस्थलतया सरसभोगेषु सर्वस्वदानं कृतवती। शिलातले पूर्वमुपोपविष्टा गोदावरीसलिले चिरं सलिलविहारे प्रवृत्ते खिन्नो रामः प्रदेशा न्तरे निस्तरणायोगात् केनचिच्छिलातलमार्गेण निर्गन्तुमालोकितवान् । सीता तु प्रेक्षितज्ञास्तु कोसला' इति न्यायेन कान्तस्य प्रेक्षणातिशयमवगम्य तं पुनः केशयितुं तच्छिलातलं पूर्वमधिरूढा उपोपविष्टा । तत्र ययं कोणमवलम्ब्योत्थातुमिच्छति तत्तदाकम्य मुखे सलिलमभिषिञ्चन्ती स्थिता, वीप्सयैवमव गम्यते। कान्तस्मिता सहजमधुरहासवती। जातहासा स्वविजयकृतहषेण सनातहासा। त्वामाह इतः पूर्व कुत्रापि पराजयाभावात् अधुना स्त्रीतोऽभिनव पराजयाद्रामो लजानम्रवदनोऽभूत् । तं विहाय प्रातरं बहुघा प्रशंसन्तं लक्ष्मणं प्रत्युक्तवती ।बहुवाक्यजातं युवा सङ्कल्पितं सबै निर्वर्तितवन्तौ हि युवा मतिबलपराक्रमशालिनौ पुरुषधीरेयो वयमबलाजनाः युर्वा मृगयायै शत्रुहत्यायै चाभियातारः वयं गृहादनिर्गच्छन्त्यः युवयोः संकल्पितं सर्व कर्तुं शक्यं । युष्मदग्रजो जितवान् हि इत्येवं बहुमुखं वचनमबोचत् ॥ १२॥ नित्यकालं सर्वकालम् । अत्र गोदावर्याम् चिन्तयामि तन्न युक्तमिति शेषः ॥ १३ ॥ परिपीतवन्ति रुधिरमिति शेषः । शून्ये विजनप्रदेशे ॥१०॥ ११॥ उपोपविष्टा लपीपात्रसिता । निश्शाई सितम्, ईषच्छब्दो हासः ॥ १२ ॥ १३ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy