________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गद्गदकण्ठत्वादिति भावः । यद्वा विलापसम्बन्धादस्माभिर्वक्तुमशक्यम् अनुवदितुमशक्यमित्यर्थः ॥२॥ पश्यन्निवेत्युक्तमुपपादयति, सास्त्वमित्यादि। पञ्चभिः । त्वम् अशोकस्य शाखाभिः पुष्पिततया स्वर्णसदृशीभिः स्वयं पुष्पप्रियतया स्वशरीरं मम शोकविवर्धनी सती आवृणोपि किं तेनावर । णेन मया दृष्टत्वादिति भावः ॥ ३॥ कदलीकाण्डसदृशौ कदलीदण्डतुल्यत्वेन कदल्या संवृतावपि ते उरू पश्यामि तेन तौ निगृहितुम् आच्छादितुं न त्वमशोकस्य शाखाभिः पुष्पप्रियतया प्रिये । आवृणोषि शरीरं ते मम शोकविवर्धनी ॥ ३॥ कदलीकाण्डसदृशौ कदल्या संवृतावुभौ । ऊरू पश्यामि ते देवि नासि शक्ता निगृहितुम् ॥४॥ कर्णिकारवनं भद्रे हसन्ती देवि सेवसे । अलं ते परिहासेन मम बाधावहेन वै ॥५॥ परिहासेन कि सीते परिश्रान्तस्य मे प्रिये। अयं स परि हासोऽपि साधु देवि न रोचते ॥६॥ विशेषणाश्रमस्थाने हासोऽयं न प्रशस्यते । अवगच्छामि ते शीलं परिहास प्रियं प्रिये । आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव ॥७॥ सुव्यक्तं राक्षसैः सीता भक्षिता वा हृतापि वा । नहि सा विलपन्तं मामुपसंप्रेति लक्ष्मण ॥ ८॥ एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण । शंसन्तीव हि वैदेहीं भाक्षितां रजनीचरैः ॥९॥ हा ममायें व यातासि हा साध्वि वरवर्णिनि । हा सकामा त्वया देवी कैकेयी सा
भविष्यति ॥१०॥ सीतया सह निर्यातो विना सीतामुपागतः। कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं पुनः॥ ११॥ शक्तासि, दृष्टस्याच्छादनासम्भवादिति भावः ॥ ४॥ हसन्ती हासार्थ कर्णिकारवन सेवसे ॥५॥हे सीते ! परिहासेन किं किंप्रयोजनम् ? हि यस्मात् परिश्रान्तस्य मे मह्यं सः पूर्वं प्रियः अयं परिहासः साधु सम्यक् न रोचते ॥६॥ विशेषेणेति । शीलं स्वभावः । परिहासेन प्रीणातीति परिहासप्रियम् ।। "इगुपधज्ञाप्रीकिरः कः" इति कः। आगच्छेत्यर्द्धमेकं वाक्यम् ॥७॥ सुव्यक्तमिति । हिहेतौ । उपसंप्रेति उपेक्षत इत्यर्थः॥८॥ एतानीति । शंसनप्रकारः साश्रुनेत्राणीति ॥९॥ मम मदीये । आयें पूज्ये ।लोकैरिति शेषः।सकामा स्वाभीष्टास्मन्मरणसिद्धेरिति भावः ॥१०॥ सीतां विनाऽऽगतत्वाच्छून्यम्॥११ सम्बन्धः ॥ २ ॥३॥ कदलीकाण्डः कदलीस्कन्धः ॥ ४-७॥ पुनर्भमनिवृत्त्याह-सुब्यक्तमिति । उपसमैति हासरसेनोपेक्षते इत्यर्थः ॥ ८-११॥
For Private And Personal Use Only