________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बा.रा.भू. निस्संज्ञः । विचेतनः निश्चेष्टः । अशीतम् उष्णम् । आयतं दीर्घमिति निश्वासक्रियाविशेषणम् ॥ २९ ॥ विचुक्रोश उच्चैः स्वरेणाहूतत्वान् ॥ ३० ॥ ॐ प्रश्रितं सविनयमिति क्रियाविशेषणम् । प्रथिताञ्जलिः बद्धाञ्जलिः ॥ ३१ ॥ लक्ष्मणोष्ठपुटाच्युतं लक्ष्मणोक्तमित्यर्थः । पुनः प्राक्रोशत् उद्घोषेणाहूत ॐ वान् । अस्मिन् सर्गे द्वात्रिंशच्छोकाः ॥ ३२॥ इति श्रीगोविन्द • श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकषष्टितमः सर्गः ॥ ६१ ॥
॥१४८॥
बहुलं स तु निःश्वस्य रामो राजीवलोचनः । हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः ॥ ३० ॥ तं ततः सान्त्वया मास लक्ष्मणः प्रियवान्धवः । बहुप्रकारं धर्मज्ञः प्रश्रितं प्रश्रिताञ्जलिः ॥ ३१ ॥ अनादृत्य तु तद्वाक्यं लक्ष्मणोष्ट पुटाच्युतम् । अपश्यंस्तां प्रियां सीतां प्राक्रोशत स पुनः पुनः ॥ ३२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥
सीतामपश्यन् धर्मात्मा कामोपहतचेतनः । विललाप महाबाहू रामः कमललोचनः ॥ १ ॥ पश्यन्निव सतां सीतामपश्यन्मदनार्दितः । उवाच राघवो वाक्यं विलापाश्रयदुर्वचम् ॥ २ ॥
Acharya Shri Kailassagarsun Gyanmandir
अथ रामस्य " दृङ्मनःसङ्गसंकल्पा जागरः कृशताऽरतिः । हीत्यागोन्मादमूच्छन्ता इत्यनङ्गदशा दश ।” इत्युक्तावस्थास्वरतिं नाम पष्ठीमवस्थां प्रदर्शयति द्विपष्टितमे - सीतामित्यादि । धर्मात्मा कामोपहतचेतन इत्याभ्यां धर्माविरुद्धकामस्यानिन्द्यत्वमुक्तम् । महावाहुरित्यूर्ध्वबाहुत्वमुच्यते । कमललोचन इत्यनेन समधुपद्मसाम्यादनुकालुप्यमुच्यते । कामेन सीताविप्रलम्भजनितव्यामोहेन उपड़ता अप्रकृतिस्था चेतना चैतन्यं यस्य स तथा ॥ १ ॥ पश्यन्निवेति । पुरोवर्तित्वाभावेन सीतामपश्यन्नपि मद्नार्दितो मदनपरवशः तां पश्यन्निव सम्बोध्योवाच । तद्वाक्यं विलापाश्रयत्वेन दुर्वचं ह्यवसन्नाङ्गः इत्येव पाठः। गतबुद्धिः ज्ञानशून्यः । विचेतनः चेष्टारहितः ॥ २९-३२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायामारण्य काण्डव्याख्यायामेकषष्टितमः सर्गः ॥ ६१ ॥ सीतामिति । कामोपहतचेतनः कामेन सीतावियोग जनितव्यामोहेन उपहता अप्रकृतिस्था चेतना चैतन्यं यस्य सः ॥ १॥ पश्यन्निवेति । पुरोवर्तित्वाभावेन सीतामपश्यन्नपि मदनार्दितो मदनपरवशस्तां पश्यन्निव सम्बोध्य विलापाश्रयत्वेन दुर्घचं गङ्गदकण्ठत्वाद्वाक्यमुवाचेति
For Private And Personal Use Only
टी.आ.कां. स० ६२
॥ १४८॥