SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailasagasun Gyarmandir पा.रा.भू. ॥१९॥ कातरत्वम् अधीरत्वम् । जीवितधारणाशक्तरिति भावः ॥ १२॥ निवृत्तवनवासः समाप्तवनवासः। “समाप्तौ वृत्त इत्यदः" इति शब्दार्णवे ! निरीक्षितुंटी .आ.at प्रतिवक्तुं सुतरामिति भावः ॥ १३॥ तया सीतया ॥ १४॥ भरतपालितां सुसमृद्धामपीत्यर्थः॥ १५॥ कथञ्चन त्वत्कृताश्वासनेनापीत्यर्थः॥ १६॥ निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति । कातरत्वं प्रकाशं हि सीतापनयनेन मे ॥१२॥ निवृत्तवनवासश्च जनक मिथिलाधिपम् । कुशलं परिष्ट्रच्छन्तं कथं शक्ष्ये निरीक्षितुम् ॥ १३ ॥ विदेहराजो नूनं मां दृष्ट्वा विरहितं तया। सुतास्नेहेन सन्तप्तो मोहस्य वशमेष्यति ॥१४॥ अथवा न गमिष्यामि पुरीं भरतपालिताम् । स्वर्गोपि सीतया हीनः शन्य एवं मतो मम॥१५॥ मामिहोत्सृज्य हि वने गच्छायोध्यां पुरीं शुभाम् । न त्वहं तो विना सीता जीवेयं हि कथञ्चन ॥१६॥ गाढमाश्लिष्य भरतो वाच्योमदचनात्त्वया। अनुज्ञातोऽसि रामेण पालयेति वसुन्धराम् ॥१७॥ अम्बा च मम कैकेयी सुमित्रा च त्वया विभो । कौसल्या च यथान्यायमभिवाद्या ममाज्ञया ॥ १८॥ रक्षणीया प्रयत्नेन भवता सोक्तकारिणा ॥१९॥ सीतायाश्च विनाशोऽयं मम चामित्रकर्शन । विस्तरेण जनन्या मे विनिवेद्य स्त्वया भवेत् ॥२०॥ इति विलपति राघवे सुदीने वनमुपगम्य तया विना सुकेश्या।भयविकलमुखस्तु लक्ष्मणोपि व्यथितमनाभृशमातुरोबभूव ॥२३॥ इत्यार्षे श्रीरामायणे वाल्मीकीये. श्रीमदारण्यकाण्डे द्विषष्टितमः सर्गः॥१२॥ पालयेति वाच्य इत्यन्वयः॥१७॥ अम्बति । प्रथमोक्तिः शोकजाग्रहात् ॥ १८॥ रक्षणीयेत्यर्धम् । सा कौसल्या ॥१९॥ सीतायाश्चेति । मम विनाशः। भावीति शेषः ॥२०॥ इतीति । तया विनाकृतं वनमुपगम्येत्यर्थः । सुकेश्येति विलापहेतुः । भयेन विकलमुखः विवर्णमुखः। आतुरः तप्तशरीरः॥२१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाल्याने आरण्यकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ ६२॥ लाकातरत्वम् अधीरत्वम् ॥ १२ ॥ १३ ॥ (तया सीतया विरहितं हीनम् । वशमेष्यतीत्यनन्तरं-" तातएव कृतार्थस्स तत्रैव वसतागतः" इत्यर्धमधिकं कतकपाठे | |१४९॥ अस्पार्षः-तातो दशरथ एवं कृतार्थः । वसतादिति लोट् व्यत्ययेन । यतस्तत्र स्वर्ग एव वसति, नतु जीवन्ती कोसल्येत्यर्थः ॥ स०-तत्रैव स्वर्ग एव वसतात । मया साकमिति शेषः । इति उक्त्वा गतः ततो दशरथः कृतार्थः । स्नुषादर्शनं तत्रैव जातमिति कतार्थ इति मावः ॥ १४॥)॥१५-२०॥ इतीति । भयविकलमुखः मयेन विवर्णमुखः ॥२१॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां द्विषष्टितमः सर्गः ॥२॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy