SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥१३३॥ | www.kobatirth.org मासेति क्रियाभदादपुनरुक्तिः । अवशां दर्शनमनिच्छन्तीम् ॥ ४-६ ॥ गृहं वर्णयति द्वाभ्याम् - हम्र्म्येत्यादि । हयैः हस्वविमानैः प्रासादैः उन्नतविमानैश्व सम्बाधं निविडम् । काञ्चनैः स्वर्णमयैः तापनीयैः तप्तस्वर्णमयैः स्तम्भैरुपलक्षितम् ॥ ७ ॥ ८ ॥ दिव्यदुन्दुभिनिर्ह्रादं निर्ह्रादवत् । अर्शमाद्यच । यद्वा दिव्यदुन्दुभेरिव निर्ह्रादः शब्दो यस्य तत्, आरोहणकाले दुन्दुभिवत् ध्वनतीति भावः । तोरणो बहिर्द्वारम् । चित्रम् आश्वर्यभूतम् । “आलेल्या धर्ममो हर्म्यप्रासादसम्बाधं स्त्रीसहस्रनिषेवितम् । नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम् ॥ ७ ॥ काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैरपि । वज्रवैडूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोहरैः ॥ ८ ॥ दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम् । सोपानं काञ्चनं चित्रमारुरोह तथा सह ॥ ९ ॥ दान्तिका राजताश्चैव गवाक्षाः प्रियदर्शनाः । हेमजालावृताश्वासन तत्र प्रासादपङ्कयः ॥ १० ॥ सुधामणिविचित्राणि भूमिभागानि सर्वशः । दशग्रीवः स्वभवने प्रादर्शयत मैथिलीमू ॥ ११ ॥ दीर्घिकाः पुष्करिण्यश्च नानावृक्षसमन्विताः । रावणो दर्शयामास सीतां शोकपरायणाम् ॥ १२ ॥ दर्श यित्वा तु वैदेह्याः कृत्स्नं तद्भवनोत्तमम् । उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया ॥ १३ ॥ Acharya Shri Kailassagarsuri Gyanmandir श्वित्रम्" इत्यमरः । तया सहारुरोह तामादायारुरोहेत्यर्थः ॥ ९ ॥ वक्ष्यमाणभूभागदर्शनसाधनान्याह - दान्तिका इति । दान्तिकाः दन्तविकृताः तत्र सोपानमार्गे गवाक्षा आसन तदुपरि हेममयैः जालैः जालकैः आवृताः प्रासादपङ्क्यश्चासन् ॥ १० ॥ सुधावलेपनेन मणिभिश्व विचित्राणि, भूमिभागा नीति कीबत्वमार्षम् । प्रादर्शयत प्रदर्शयामास । तैर्गवाक्षैरिति शेषः ॥ ११ ॥ दीर्घिकाः वाप्यः । पुष्करं जलमासामस्तीति पुष्करिण्यः । द्वितीयायें प्रथमा । " पुष्करादिभ्यो देशे " इति इनिप्रत्ययः । शोकपरायणामित्यनेन तस्या असह्यत्वं द्योत्यते ॥ १२ ॥ लोभितुं लोभयितुम् । अन्तर्भावित तपनीयकृतैः सुवर्णकृतैरित्यर्थः ॥ ६-९ ॥ दान्तिका इति । हेमजालैः हेममयजालकैः ॥ १० ॥ सुधेति । सुधामणिविचित्राणि सुधा चूर्ण तज्जनकमणिभिः मुक्ता | मणिभिर्विचित्राणि । भूमिभागानि कुट्टिमप्रदेशान् ॥ ११ ॥ दीर्घिकाः वापीः । पुष्करिण्यः पुष्करिणीः पद्मयुता इत्यर्थः ॥ १२ ॥ लोभितुं सामनिग्रहाभ्यां प्रलोभ For Private And Personal Use Only टी. आ.. ०५५ ॥१३३॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy