________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ण्यर्थोयम् ॥ १३ ॥ दश द्वाविंशतिश्चति द्वात्रिंशत्कोत्यः तेषां द्वात्रिंशत्कोटिराक्षसानाम् ।गुणीभूतानामपि राक्षसानां तच्छब्देन परामर्शः “अथ शब्दा नुशासनं केषां शब्दानाम्" इत्यादौ तथा दर्शनात् ॥१४॥ वर्जयित्वेति ।बालवृद्धान् विना ममैकस्य। पुरःसरतीति पुरस्सरं परिचारकजातम् एकसहस्र । मस्ति॥१५॥ यदिदमिति । मम यदिदं राजतन्त्रं राजपरिकरः तत्सर्वं त्वयि प्रतिष्ठितं त्वधीनं मम जीवितं च त्वदधीनं त्वयि प्रतिष्ठितम्। त्वं मे मम प्राणैः ।
दश राक्षसकोट्यश्च द्वाविंशतिरथापराः। तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम् ॥१४॥ वर्जयित्वा जरावृद्धान बालांश्च रजनीचरान् । सहस्रमेकमेकस्य मम कार्यपुरस्सरम् ॥ १५॥ यदिदं राजतन्त्रं मे त्वयि सर्व प्रतिष्ठितम् । जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी॥१६॥ बहूनां स्त्रीसहस्राणांमम योऽसौ परिग्रहः । तासांत्वमीश्वरा सीते
ममभार्याभव प्रिये ॥१७॥ साधुकिं तेऽन्यथा बुद्ध्यारोचयस्व वचो मम ।भजस्व माऽभितप्तस्य प्रसादं कर्तुमर्हसि॥१८५ प्राणेभ्यः गरीयसी ॥१६॥ अन्तःपुरचारिणां स्त्रीसहस्राणां मध्ये योसौ मम परिग्रहः या भार्या इत्यर्थः । “परिग्रहः कलत्रे स्यात्" इति शाश्वतः । नियत पुल्लिङ्गः । जात्यभिप्रायेणेकवचनम् । तासामित्या स्त्रीणामित्यभिप्रायेण स्त्रीलिङ्गनिर्देशः। मम भार्या सती तासामीश्वरा स्वामिनी भव । “स्थेशभासपिसा॥ कसो वरच" इति वरच । ततष्टाप् ॥१७॥ साध्विति । मम वचो रोचयस्व मदुक्तं स्वीकुरु, इदं साधु समीचीनम्, ते अन्यथा बुद्ध्या किम् ? रामविषया तिम ॥१३॥दशेति । द्वात्रिंशत्कोटिसङ्ख्या इत्यर्थः ॥ १४ ॥ सहस्रमिति । एकस्य मुख्यस्य, तेषां मुल्यस्वेत्यर्थः । मम कार्यपुरस्सरं कार्यसाधकमेकै सहन भवतीति शेषः । एकैकस्य कार्यसाधनाय एकैकं सहस्त्रं नियोजयामीत्यर्थः ॥ १५ ॥ यदिदमिति । राजतन्त्र राजपरिकरः । प्रतिष्ठितं त्वदधीनम् । प्राणैः पाणेभ्यः ॥ १६॥ अन्तःपुरचारिणीनां खीणां मध्ये यो मम परिग्रहः, या मम भार्या इत्यर्थः। परिग्रहशब्दो नियतपुंलिङ्गः । अत्रायं जात्येकवचने योसो परिमह इति । निर्दिश्य तासामिति स्त्रीलिङ्गेन स्त्रीणां निर्देशः । परमार्थतः परिग्रहशब्दवाच्यानां स्त्रीत्वादिति ज्ञेयम् । मे मम भार्या सती तासामीश्वरा स्वामिनी भवेत्यन्वयः। वस्तुतस्तु-अभवप्रिये इति छेदः । हे मोक्षप्रिये ! भार्येत्यत्र मा आर्येति च्छेदः । भा चिद्रूपिणी । आर्या श्रेष्ठा त्वं मम तासां च ईश्वरा भवेति योजना ॥ १७ ॥ साध्विति । साधु हितं मम वचो रोचयस्व अङ्गीकुरु, भज मामिति शेषः । कामाभितप्तस्य मम प्रसादं कर्तुमर्हसि । “भजस्व मामितप्तस्य" इत्यपि पाठः ।
स-बालान् इवान् जनान्वर्जयित्वा द्वात्रिंशसंख्या राक्षसेषु मध्ये एककस्य कार्यधुरस्सरम कार्यकरम एकैकसहवं तिष्ठति । एतब रावणहमध्ये परिचारसंख्यानम् । एतदतिरिक्ताच बहवः शूराः सन्ति । मतो नाशीतिकोटियूथपरिमित्यादिविरोधः ॥ ११॥ हे प्रिये ! तासां यः एरिमहः मूलम् असो त्वमेवेति योजना * परिग्रहः स्वीकारमूलयोः' इति विश्वः ॥१७॥
For Private And Personal Use Only