________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सर्थ संगृह्य दर्शयति-ततस्त्विति । उपलभ्य दृष्ट्वा सुसम्प्रहृष्टः कामविकारवान् । परिगृह्य गृहीत्वा । रामेण वैरं प्रसज्य प्राप्यापि मोहान्मुदितो बभूव । अत्र त्रिंशच्लोकाः॥३०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुःपञ्चाशः सर्गः ॥५४॥ पूर्व स्वप्रभावकथनमुखेन प्रलोभनं कृतवान् । अथ भोगोपकरणप्रदर्शनमुखेन रावणः सीतां प्रलोभयति पञ्चपञ्चाशे-सन्दिश्येत्यादि । बुद्धिवैकुण्यात् । ततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम् । प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितःस राक्षसः ॥३०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुःपञ्चाशः सर्गः * ॥५४॥ सन्दिश्य राक्षसान् घोरान रावणोऽष्टौ महाबलान् । आत्मानं बुद्धिवैक्लव्यात्कृतकृत्यममन्यत ॥१॥ स चिन्तयानो वैदेही कामबाणसमर्पितः । प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन् ॥ २॥ स प्रविश्य तु तद्वेश्म रावणो राक्षसा धिपः। अपश्यद्राक्षसीमध्ये सीतां शोकपरायणाम् ॥ ३ ॥ अश्रुपूर्णमुखीं दीनां शोकभाराभिपीडिताम् । वायु वेगैरिवाक्रान्तां मजन्ती नावमर्णवे ॥ ४॥ मृगयूथपरिभ्रष्टां मृगी श्वभिरिवावृताम् । अधोमुखमुखीं सीतामभ्येत्य
च निशाचरः॥५॥ तां तु शोकपरां दीनामवशा राक्षसाधिपः । स बलाद्दर्शयामास गृहं देवगृहोपमम् ॥६॥ बुद्धिदौर्बल्यात् , अकृतबुद्धित्वादित्यर्थः ॥३॥ समर्पितः पीडित इत्यर्थः। अभित्वरन् अभित्वरमाणः॥२॥ स प्रविश्यति। वेश्म अन्तःपुरम् ॥३॥ अश्चि त्यादिश्शोकत्रयमेकं वाक्यम् । अधोमुखमवनतं मुखं यस्यास्ताम् । “स्यादवाङप्यधोमुखः" इत्यमरः । शोकभाराभिपीडितामभ्येत्य शोकपरां दर्शया d महाप्रकरणाथै संग्रहाति-तत इति । उपलभ्य प्राप्य, गृहीत्वेत्यर्थः । परिगृह्य स्वगृहे अवस्थाप्य । वैरं प्रसज्य प्राप्य । मोहादविवेकान्मुदितः प्रीतो बभूव। वस्तुतस्तु रावणस्य श्रीरामेण सह वैरं लोकदृष्टया अनर्थवत्प्रतीयमानमपि सीताहरणद्वारा श्रीरामहस्तात्स्ववधस्येष्टतमत्वाद्रामेण वैरं प्राप्य मुमुद इति भावः॥३०॥ इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतत्वदीपिकाख्यायाम् आरण्यकाण्डव्याख्यायां चतुःपक्षाशः सर्गः ॥ ५४ ॥ सन्दिश्येति । बुद्धिवेकव्यात् बुद्धिवपरी त्यात् ॥ १-४॥ मृगयूथेति । अधोमुखमुखीम् अधोमुखे अध:प्रदेशे मुखं यस्यास्ताम् । यद्वा अधोमुखमवगतं मुखं यस्यास्ताम् । " स्यादवाङप्यधोमुखः" इत्यमरः ॥५॥ स बलादर्शयामासेत्यारभ्य तप्तकाञ्चनतोरणमित्यन्तमेकं वाक्यम् । दान्तकरित्याग्रुपलक्षणे तृतीया । दन्तेः कृतेः दान्तकैः । तापनीयैः •सर्गश्रवणफलम् । स्काद--सीतापहारमारभ्य लङ्कायां स्थापनावधि | श्रवणाधाखविहिताज्येष्टा देवी विनश्यति ।।" इति ।
For Private And Personal Use Only