________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
इत्यर्थः ॥ १२॥ ज्ञानप्रकारमाह-कौसल्येति । तात सर्वलोकजनक ! त्वं कौसल्यायाः सुप्रजाः । “नित्यमसिच् प्रजामेधयोः” इत्यसिच । इति विदितोसि । महाभागा श्रीवैदेहीत्यवगता । अयं च त्वदंशभूतो महायशाः त्वदनुवर्तनजकीर्तिमान् लक्ष्मण इति विदितः॥ १३॥ एतावत्पर्यन्तं कुतो न ज्ञातवानसीत्यत्राह-अपीति । अपिर्गहायाम् । कस्य केन शाप इत्यत्राह तुम्बुरुरित्यादि । अहमिति शेषः ॥ १४ ॥ उपकारस्मृत्योपश्लोकयति
कौसल्यासुप्रजा राम तात त्वं विदितो मया । वैदेही च महाभागा लक्ष्मणश्च महायशाः॥१३॥ अपि शापादहं घोरां प्रविष्टो राक्षसी तनुम् । तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन ह ॥१४॥ प्रसाद्यमानश्च मया सोऽब्रवीन्मा महा यशाः। यदा दाशरथी रामस्त्वां वधिष्यति संयुगे॥१५॥ तदा प्रकृतिमापनोभवान स्वर्ग गमिष्यति । इति वैश्रवणो राजा रम्भासक्तं पुराऽनघ । अनुपस्थीयमानो मा संक्रुद्धो व्याजहार ह ॥ १६ ॥ तव प्रसादान्मुक्तोऽहमभिशापात्
सुदारुणात् । भुवनं स्खं गमिष्यामि स्वस्ति वोऽस्तु परन्तप ॥१७॥ इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ॥१८॥ महायशा इति । प्रकृति स्वरूपम् । शापनिमित्तमाह अनुपस्थीयमान इति । रम्भासक्तं माम् अनुपस्थीयमानः अवसरे मया असेव्यमानः अत एवं संक्रुद्धः राजा अस्मत्स्वामी वैश्रवणः इति उक्तप्रकारेण राक्षसो भवेति व्याजहार । पुनर्मया प्रसाद्यमान इत्यत्रबीच उक्तप्रकारेण शापावसानं| चोबाचेति योजना ॥ १५॥ १६ ॥स्वं भुवनं स्वर्गलोकम् । उपकारस्मृत्या मङ्गलमाशास्ते स्वस्ति व इति ॥ १७॥ वाचिककैङ्कर्यमातनोतिइत इति । प्रतापवान् महातपाः । अधिकमध यस्य तदध्यधै तच्च तद्योजनं च तस्मिन्, सार्धयोजन इत्यर्थः ।। १८॥ पाटः । हे परमपुरुष ! पूर्व त्वं मया न ज्ञात इति तव सच्चिदानन्दजगन्मोहन श्रीमूर्तिसंस्पर्शभागधेयात्पूर्व निरवधिककरुणया मदीयशापविमोचनायाविर्भूतश्रीराम स्त्वमिति मया न ज्ञात इत्यर्थः ॥ १२ ॥ इदानी स एव परमेश्वरः त्वं रामरूपेणावतीर्ण इति विदितः ॥ १३ ॥ तुम्बुरुर्नाम गन्धवोऽहं वैश्रवणेन शप्तः, तस्मादाम शापाद्राक्षसी तनुं प्रविष्ट इति सम्बन्धः ॥ १४ ॥ प्रकृति गान्धर्वी तनुम् ॥ १५॥ शापकारणमाह अनुपस्थीयमानः अवसरेष्वसेव्यमानः । अनुपस्थाने कारण माह रम्भासक्तमिति । अतः क्रुद्धस्सन मां राक्षसो भवेति व्याजहार । ततः प्रसाद्यमान इत्युवाच । इति यदा दाशरथी राम इत्यादिना पूर्वोक्तं शापमोचनप्रकार
For Private And Personal Use Only