SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ॥ ११ ॥ वा.रा.भू. क्षिप्रं तदग्निप्रवेशात्पूर्वम् । ते त्वत्तः श्रेयः ब्रह्मलोकं विधास्यति पोषयिष्यति । यद्वा ते श्रेयः निवासस्थानप्रवेशनादिकम् ॥ १९ ॥ अवट इति । अवटे श्वभ्रे टी.आ.की. कुशली आर्तत्राणरूपकुशलयुक्तः । गतसत्त्वानां गतासूनाम् । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु ” इत्यमरः । एषः अवटप्रक्षेपः । अस्य धर्मस्य फलमाह अवट इति ॥ २० ॥ स्वर्गसम्प्राप्तः सम्प्राप्तप्राय इत्यर्थः । खननानन्तरं स्वर्गप्राप्तेः ॥ २१ ॥ २२ ॥ कुञ्जरस्येत्यादि श्लोकद्वयम् । वैपुल्यं विधाय अध्यर्धयोजने तात महर्षिस्सूर्यसन्निभः । तं क्षिप्रमभिगच्छ त्वं स ते श्रेयो विधास्यति ॥ १९ ॥ अवटे चापि मां राम प्रक्षिप्य कुशली व्रज । रक्षसां गतसत्त्वानामेष धर्मः सनातनः । अवटे ये निधीयन्ते तेषां लोकाः सनातनाः ॥ २० ॥ एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः । बभूव स्वर्गसंप्राप्तो न्यस्तदेहो महाबलः ॥ २१ ॥ तच्छ्रुत्वा राघवो वाक्य लक्ष्मणं व्यादिदेश ह ॥ २२ ॥ कुअरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण । वनेऽस्मिन् सुमहच्छभ्रं खन्यतां रौद्रकर्मणः ॥ २३ ॥ इत्युक्ता लक्ष्मणं रामः प्रदरः खन्यतामिति । तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥ २४ ॥ ततः खनित्रमादाय लक्ष्मणः श्वभ्रमुत्तमम् । अखनत पार्श्वतस्तस्य विराधस्य महात्मनः ॥ २५ ॥ तं मुक्तकण्ठं निष्पिष्य शङ्कुकर्ण महास्वनम् । विराधं प्राक्षिपच्छ नदन्तं भैरवस्वनम् ॥ २६ ॥ तमाहवे निर्जितमाशु विक्रम स्थिरावुभौ संयति रामलक्ष्मणौ । मुदान्वितौ चिक्षिपतुर्भयावहं नदन्तमुत्क्षिप्य विले तु राक्षसम् ॥ २७ ॥ निम्नतां विधत्ते प्रदरः खन्यतामिति । प्रकृष्टो दरः प्रदरः ||२३|| २४|| उत्तमम् अतिनिनम् । महात्मनः महाकायस्य ॥ २५ ॥ मुक्तकण्ठं कण्ठाक्रमणरहि तम् अत एव महास्वनम् । शङ्कुकर्णे शङ्कुः कीलं तत्सदृशकर्ण गर्दभाकारं वा । “शङ्कुकर्णो गर्दभोथौ ” इति वाणः । भैरवस्वनं भयङ्करप्रतिध्वानं यथा भवति तथा नदन्तम् । महास्वनमित्यत्र स्वभावोक्तिः । अत्रोच्चारणरूपकायक्तिरिति भिदा || २६ ॥ समस्तमुक्तमेवार्थ वृत्तान्तरेण संगृह्णाति - तमाहव मप्युवाचेत्यर्थः ॥ १६-१८ ॥ अध्यर्धयोजने अधिकमर्थं यस्य तदध्यर्थं तच्च तद्योजनञ्च, सार्धयोजनमित्यर्थः ॥ १९ ॥ अवटे गर्ते ॥ २० ॥ स्वर्गसंप्राप्तः स्वर्ग सम्यक् प्राप्तुमुपक्रान्तवान् ॥ २१ ॥ २२ ॥ कुञ्जरस्येत्यादिश्लोकद्वयमेकं वाक्यम् । श्वभ्रं गर्तः । प्रदरः गर्तः । हे लक्ष्मण ! राक्षसस्य व वन्यतामिति रामो लक्ष्मणमुक्त्वा अयं प्रदरं खनतु तावत्पर्यन्तमहमेवं करोमीति प्रदरखननाव सरप्रदानाय पादेन विराधकण्ठे आक्रम्य तस्थावित्यर्थः || २३ || २४|| २५॥ मुक्तकण्ठं श्रीरामचरणपीडनेन शिथिलीकृतकण्ठम् । यद्वा रामपादेन त्यक्तं कण्ठं निक्षिप्य नितरां चालयित्वा प्राक्षिपत् अपातयत् ॥ २६ ॥ तमाहव इत्यादि For Private And Personal Use Only स० ४ ॥ ११
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy