________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा.रा.भू.
द्वीपिनः अल्पव्याघ्राः । “व्यात्रो मृगारिः शार्दूलो हिंसारुचित्रकीमृगात् । चण्डश्चाल्पस्त्वयं द्वीपी " इति वैजयन्ती । नमस्त इत्येवं चुक्रोशति ॥ १० ॥ ४७ पूर्वेणान्वयः ॥ ३ ॥ ४ ॥ सव्यमिति । ननु विराधादाने कबन्धादाने च लक्ष्मणः सव्यं रामो दक्षिणं भुजमच्छिनदित्यविशेषेणोच्यते, किमत्र नियामकमिति चेत् ? उच्यते-सर्वदा लक्ष्मणो रामस्य दक्षिणपार्श्व एव तिष्ठति, अतो गृहन् दक्षिणेन रामं सव्येन लक्ष्मणं चागृहादित्यविरोधः । तरसा तस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ । वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः ॥ ४ ॥ तस्य रौद्रस्य सौमित्रि बहुं सव्यं बम हु । रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ॥ ५ ॥ स भग्रबाहुः संविग्नो निपपाताशु राक्षसः । धरण्यां मेघसङ्गाोवभिन्न इवाचलः ॥ ६ ॥ मुष्टिभिजानुभिः पद्भिः हृदयन्तौ तु राक्षसम् । उद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः ॥ ७ ॥ स विद्धो बहुभिर्बाणैः खड्गाभ्यां च परिक्षतः । निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥ ८ ॥ तं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम् । भयेष्वभयदः श्रीमानिदं वचनमब्रवीत् ॥ ९ ॥ तपसा पुरुषव्याघ्र राक्षसोऽयं शक्यते । शस्त्रेण युधि निर्जंतुं राक्षसं निखनावहे ॥ १० ॥ तच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः । इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् ॥ ११ ॥ हतोऽस्मि पुरुषव्याघ्र शक्रतुल्यबलेन वै । मया तु पूर्व त्वं मोहान्न ज्ञातः पुरुषर्षभः ॥ १२ ॥
| बलेन ॥ ५ ॥ संविद्मः भीतः ॥ ६ ॥ मुष्टिभिरिति बहुवचनमावृत्त्या उद्यम्योद्यम्य सूदयन्तौ मुष्ट्यादिकमुद्धत्योद्धृत्य प्रहरन्तौ । स्थण्डिले भूतले ||७||८|| भयेष्वभयदः शापापायकरणाय प्रसन्न इत्युच्यते ॥ ९ ॥ शस्त्रेण शस्त्रादिभिः । निखनावड़े भूमौ निक्षिपेव ॥ १० ॥ प्रथितं विनयान्वितं यथा तथा प्रोवाचेत्यन्वयः ॥ ११ ॥ रामपादस्पर्शन प्रत्यभिजानन्नाह - हत इत्यादि । त्वयेति शेषः । पुरुषर्षभः पुरुषोत्तमस्त्वं रामत्वेनावतीर्ण इति न ज्ञात उद्यम्य । शार्दूलद्वीपिन इति सबिन्द्रविन्दुव्याघ्रौ । काकुत्स्यावुत्सृज्य मां हर ते नमः इत्याद्युक्तिः रामलक्ष्मणयोः प्रेमातिशयादिति ज्ञेया ॥ १-३ ॥ तस्या इति । वेगं त्वम् || ४ || ६ || संविनः बाहुभङ्गेनोद्वियः ॥ ६-८ ॥ भयेष्वभयद इति स्वश्रवणस्मरणकीर्तनादि संविदधतः पुरुषस्य सकलभयापहारी भवति ॥ ९ ॥ अयं तपोबलसम्पन्नो यस्मात् अतः राक्षसः युधि शस्त्रेण निर्मेत्तुं न शक्यते किन्तु निखनावह इति सम्बन्धः ॥ १० ॥ ११ ॥ मोहात् अज्ञानात् । पुरुषर्षभ इति टी०-मुष्टिभिरिति । स्थण्डिले भूप्रदेशे ॥ ७ ॥ सत्य०-मया रमना सहितस्त्वं न ज्ञात इति वा ॥ १२ ॥
For Private And Personal Use Only
टी.आ.की.
स० ४
॥ १० ॥