SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir | यथेच्छति यन मार्गेण गन्तुमिच्छति तथा वहतु उभयथापि न दोष इति भावः । तत्र हेतुमाह अयमिति । नः वनमध्यगमनच्छूनामस्माकम् | ॥ २२ ॥ २३ ॥ अतिबलौ रामलक्ष्मणौ समुत्क्षिप्य बालाविव स्कन्धगतौ चकार, तयोरिच्छावशादितिभावः ||२४|| २५ || इमावपि स्वाभीष्टवनं प्रविष्टा वित्याशयेनाह - वनमिति । शिवाः सृगालविशेषाः ताभिर्युतम् । व्यालमृगैः दुष्टमृगैः “दुष्टे द्विपे श्वापदे च व्यालः पुंसि शठेपि च" इति बाणः । अत्र सर्गे यथा चेच्छति सौमित्रे तथा वहतु राक्षसः । अयमेव हि नः पन्था येन याति निशाचरः ॥ २३ ॥ स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः । बालाविव स्कन्धगतौ चकारातिबलौ ततः ॥ २४ ॥ तावारोप्य ततः स्कन्धं राघवौ रजनी चरः । विराधो निन्दन् घोरं जगामाभिमुखो वनम् ॥ २५ ॥ वनं महामेघनिभं प्रविष्टो दुमैर्महद्भिर्विविधैरुपेतम् । नानाविधेः पक्षिशतैर्विचित्रं शिवायुतं व्यालमृगैर्विकीर्णम् ॥ २६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे तृतीयः सर्गः ॥ ३ ॥ ह्रियमाणौ तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ । उच्चैस्स्वरेण चुक्रोश प्रगृह्य सुभुजा भुजौ ॥ १ ॥ एष दाशरथी रामस्सत्यवाच्छीलवाञ्छुचिः । रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः ॥ २ ॥ वृका भक्षयिष्यन्ति शार्दूला द्वीपिनस्तथा । मां हरोत्सृज्य काकुत्स्थौ नमस्ते रासोत्तम ॥ ३ ॥ भगवतः स्वायत्तसकलप्रवृत्तिकत्वं महाभयहेतावपि निर्भयत्वं च दर्शितम् । अस्मिन् सर्गे पविंशतिश्लोकाः ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ॥ अथ परमपुरुषवहनफलं वक्तुमुपक्रमते - हियमाणावित्यादि । चुक्रोश रामस्यातिमानुषं चरित्रमवगच्छन्त्यपि स्नेहातिशयेन व्याकुला रुरोदेत्यर्थः ॥ १ ॥ सत्यवान् सत्यवचनवान् । शीलवान् सदाचारसम्पन्नः । शुचिः ऋजुबुद्धिः ॥ २ ॥ एवं दैवं प्रत्याक्रुश्य विराधं प्रत्याह-मामिति । वृकाः ईहामृगाः । “कोकस्त्वीहामृगो वृकः " इत्यमरः । शार्दूलाः महाव्याघ्राः । वहतु गच्छतु ॥ २२ ॥ कुत एवमत आह अयमेवेति । परिगृह्य एकैकेन एकैकमिति यावत् ||२३|| स त्विति । समुत्क्षिप्य परिगृह्य । स्कन्धगतौ चकार स्कन्धमारो पयामासेत्यर्थः ।। २४-२६ ।। इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां तृतीयस्सर्गः ॥ ३ ॥ द्वियमाणाविति । प्रगृह्य For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy