________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
प्रयुक्तः । कक्ष्या इभवन्धनी । यथा कक्ष्या गजगता गण यन्तुर्नियामं करोति तयेयं रावणं प्राप्य रामनिवाझमकरोदिति भावः ॥ २७ ॥ सचपलः। सविद्युत् । यथा सगर्जितो मेष आशु निस्सारो भविष्यति तयेति भावः ॥२८॥ उत्तमति । उत्तमाङ्गाच्छिरसः॥२९॥ सा स्विति । सा पुष्पवृष्टिः। रावणवेगेन रावणवेगजनितवातेन । समाधूता पुनर्दशग्रीवमेव अभ्यवर्तत अभितःप्रावर्तिष्ट । अनेन रावणस्य त्वरितगमनमुक्तम् ॥ ३०॥ उक्त
तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः । बभौ सचपलो नीलः सघोष इव तोयदः ॥२८॥ उत्तमाङ्गाच्युता तस्याः पुष्पवृष्टिः समन्ततः। सीताया ह्रियमाणायाः पपात धरणीतले ॥२९॥ सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः। समाधूता दशग्रीवं पुनरेवाभ्यवर्तत ॥३०॥ अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् । नक्षत्रमाला विमला मेरु नगमिवोन्नतम् ॥ ३१ ॥ चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम् । विद्युन्मण्डलसङ्काशं पपात मधुर स्वनम् ॥ ३२॥ तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा । जहाराकाशमाविश्य सीतां वैश्रवणानुजः ॥३३॥ तस्यास्तान्यनिवर्णानि भूषणानि महीतले । सघोषाण्यवकीर्यन्त क्षीणास्तारा इवाम्बरात् ॥ ३४॥ तस्याः स्तनान्तराद् भ्रष्टो हारस्ताराधिपद्युतिः। वैदेह्या निपतन् भाति गङ्गेव गगनाच्युता ॥३५॥ उत्पन्नवाताभिहता नाना द्विजगणायुताः । मा भरिति विधूताना व्याजहरिव पादपाः ॥ ३६॥ पुष्पवृष्टिं वर्णयति-अभ्यवर्ततेति । धारा पतिः ॥ ३१॥ चरणादिति वामचरणादित्यर्थः । भ्रष्टं शिथिलं पपात ॥ ३२॥ तामिति । उत्पातसूचिका तारा महोल्का ॥ ३३ ॥ भूषणानि उपात्तनूपुरादिभिन्नानि ॥३४॥ भाति भाति स्म ॥ ३५॥ उत्पन्नेति । रावणवेगोत्पनेत्यर्थः । वातकम्पितान उत्पातवाताभिहताः इति पाठः । ऊर्ध्ववातामिहताः। द्विजगणायुताः पक्षिगणयुक्ताः ॥३६॥ M तिल०-उत्तमाङ्गादिति । मातस्वया सम्पादितोऽस्मन्मनोरथः इति हादेवैः क्रियमाणा पुष्पवृष्टिस्तदुत्तमाङ्गाष्प्युता तत्काले भूमी पपातेति कतकः । वस्तुतो रावणसनिधी देवानां तथा वीर्यासम्मवात् उक्षमाले धृतपुष्पाणां तदेगेन ततश्न्युत्योत्तमासाम्प्यतेत्युक्तम् । अत एवाने भूमौ पुष्पयुक्त मार्ग दृष्ट्वा रामो वक्ष्यति-" अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण । अपिनद्धानि वैदेया मया दचानि कानने ॥ " इति । सा पुष्पवृष्टिः राजणवेगेन रावणगमनबैगजनितवायुवेगेन समाधूता पुनः दशग्रीवमेव अम्पवर्तत अमितः प्राप्यातिष्ठन् ॥ २९ ॥ ३०॥ मत्र प्रकरणे वारं वारं वैश्रवणानुजत्वोक्या ईशक्रियाया अत्यनौचित्यप्रदर्शनन शीघ्रफलदत्वं चयति ॥ ३१॥
For Private And Personal Use Only