SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir बालकाण्डे विष्णुना प्रतिज्ञातं कृतमिति व्याजहार । प्रीत्यतिशयेन पुरुषान्तरासनिघानेऽप्युदाहरत् ॥ १३॥ प्रहृष्टा इति । रावणवधस्य सिद्धप्राय त्वेन हर्षः, तादात्विकसीतादशावलोकनेन व्यथा । सीतां परामृष्टां दृष्ट्वा यदृच्छया दैवगत्या रावणस्य प्राप्तं सन्निहितं विनाशं च बुद्ध्वा व्यथिताः प्रहृष्टाश्चासन्नित्यन्वयः॥१४॥ स त्विति । तुशब्देन ऋष्यादिभ्यो व्यावृत्तिः।।१५॥ तप्ताभरणं तप्तं काञ्चनाभरणम्, तत्तुल्यवर्णाङ्गी। विद्युत् विशेषेण द्योत प्रहृष्टा व्यथिताश्चासन सर्वे ते परमर्षयः । दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः। रावणस्य विनाशं च प्राप्त बुध्वा यदृच्छया ॥ १४ ॥ स तु तां रामरामेति रुदन्ती लक्ष्मणेति च । जगामादाय चाकाशं रावणो राक्षसेश्वरः ॥ १५॥ तप्ताभरणवर्णाङ्गी पीतकोशेयवासिनी । रराज राजपुत्री तु विद्युत्सौदामिनी यथा ॥ १६ ॥ उद्धृतेन च वस्त्रेण तस्याः पीतेन रावणः। अधिकं प्रतिबभ्राज गिरिदीप्त इवाग्निना॥ १७॥ तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च । पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् ॥ १८॥ तस्याः कौशेयमुद्भूतमाकाशे कनकप्रभम् । बभौ चादित्यरागेण ताम्रमभ्रमिवातपे॥ १९॥ तस्यास्तत्सुनसं वक्रमाकाशे रावणाङ्कगम् । न रराज विना रामं विनालामिव पङ्कजम् ॥२०॥ माना सौदामिनी तडित् । अनेन तडिद्यथा मेघे क्षणं तिष्ठति तथा रावणे सीतेति सूचितम् ॥१६॥ उद्धृतेति अत्रापि सीताग्रहणेन रावणस्य सन्तापो भवि प्यतीत्यलङ्कारेण वस्तुवनिः ॥१७॥ तस्या इति । रावणमभ्यकीर्यन्त रावणाले पतितानीत्यर्थः। अत्र रावणैश्चर्येक्षणाद्विशीर्ण भविष्यतीति वस्तुना वस्तु ध्वनिः॥१८॥ तस्या इति। आतपेमध्याह्ने।आदित्यरागेण तात्रम् अरुणमश्रमिव बभौ। अनेन रावणविनाशपिशुनोत्पातःसूचितः॥१९॥ तस्यास्तदिति। "उपसर्गाच" इति नासिकाशब्दान्ताबहुव्रीहेरच समासान्तः । नासिकाशब्दस्य नसादेशश्च । अब सीताया मुखविवर्णत्वोक्त्या खेदातिशय उच्यते ॥२०॥ पितामहो ब्रह्मा दिव्येन चक्षुषा आलोच्येति शेषः । कार्य देवकार्य कृतमिति व्याजहारेत्पन्वयः ॥ १३ ॥ प्रहृष्टा इति सार्धश्लोकमेकं वाक्यम् । रावणवधरूपकार्य निष्पत्रमिति प्रहृष्टाः, सीतायास्तात्कालिकी व्यथां दृष्ट्वा व्यथिताश्चाभवन ॥ १४ ॥ १५ ॥ विद्युत्सौदामिनीति । सुदामा पर्वतविशेषः रत्नादिसहितः। तत्र भवा विद्यदतिस्फूटा भवति तद्वदित्यर्थः ॥१६॥ १७॥ अभ्यकीर्यन्त रावणं पद्मपत्रादिकं रावणाने पतितमभूदित्यर्थः ॥ १८॥ आतपशब्दः सन्ध्याकालं लक्षयति, २१॥ J For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy