SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir ततः परिष्वज्य बाहुभ्यामिति शेषः ॥ ४६ ॥ इति श्रीगोवि० श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥ ५१ ॥ जटायुर्युद्धकाले विसृष्टायाः पुनरपि रावणेन हरणप्रकारमाह- तमित्यादि । राववाश्रमादित्यवाधित्वात्पञ्चमी ॥ १ ॥ सात्विति । रावणेन विनिहतं समीक्ष्ये ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम् । पुनः परिष्वज्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा ॥ ४६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥ तमल्पजीवितं गृध्रं स्फुरन्तं राक्षसाधिपः । ददर्श भूमौ पतितं समीपे राघवाश्रमात् ॥ १ ॥ सा तु ताराधिपमुखी रावणेन समीक्ष्य तम् । गृध्रराजं विनिहतं विललाप सुदुःखिता ॥ २ ॥ आलिङ्ग्य गृध्रं निहतं रावणेन बलीयसा । विललाप सुदुःखार्ता सीता शशिनिभानना ॥ ३ ॥ निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम् । अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते ॥ ४ ॥ नूनं राम न जानासि महद्व्यसनमात्मनः । धावन्ति नूनं काकुत्स्थं मदर्थं मृगपक्षिणः ॥ ५ ॥ त्यन्वयः॥२॥ विशेषान्तरं वक्तुं पुनरनुवदति - आलिङ्ग्येति । कराभ्यां संस्पृश्येत्यर्थः ॥ ३ ॥ निमित्तमिति । लक्षणानि अक्षिस्पन्दनादीनि तेषां ज्ञानम् । शकुनीनां पिङ्गल्यादीनां स्वरस्य दर्शनं ज्ञानम् । नराणां सुखदुःखेषु निमित्तं ज्ञापकं प्रतिदृश्यते ॥ ४ ॥ ततः किमित्यत्राह - नूनमिति । हे राम ! आत्मनो म (ह) द्वयसनं न जानासि किमिति काकुः, जानास्येव । यस्मान्मदर्थे मदपहरणसूचनप्रयोजनमुद्दिश्य मृगपक्षिणः काकुत्स्थं त्वामभिधावन्ति । मित्यर्थः । अग्रिदावम् अग्निश्वासी दावश्चेत्यग्निदावः तम् । करिकलभवत्सामान्यविशेषयोः सह प्रयोगः ॥ ४५ ॥ ४६ ॥ इति श्रीमहे श्रीरामायणनस्व० आरण्यकाण्ड व्याख्यायामेकपञ्चाशः सर्गः ॥ ५१ ॥ १ ॥ सा त्वित्यादि । गृध्रराजं जटायुषम् || २ || ३ || लक्षणज्ञानं लक्षणम् अक्षिस्पन्दनादीनि लक्षणानि तेषां ज्ञानम् । शकुनि स्वरदर्शनं पिङ्गल्यादिपक्षिस्वरस्य दर्शनं ज्ञानम् । नराणां सुखदुःखेषु निमित्तं ज्ञापकं कारणं दृश्यते ज्ञापयति ॥ टीका-अन्ये तु निमित्तं लक्षणं ज्ञानमिति पाठमङ्गीकृत्य एवं | व्याचक्षते निमित्तं गोमायुत्वादिकम्, लक्षणम् अङ्गस्पन्दनादिकम, ज्ञानं यदृच्छया तथा प्रतिमासः ॥ ४ ॥ एवं मदपहरणरूपव्यवसायसूचकसामम्यां सत्यामपि तव व्यवसायज्ञानं नास्तीति चित्रमिति श्रीरामं सीता उपालभते न नूनमिति । हे राम ! आत्मनो मम महयसनं न जानासि, मदर्थे मदपहारस्चनरूपप्रयोजनमुद्दिश्य मृगपक्षिणः • सर्गफलस्तुतिः । स्कान्दे- “ श्रुत्वा खगेश्वरस्यापि रचसामीश्वरस्य च । आयोधनमृणान्मुक्तो भृत्यः स्वामिकृताद्भवेत् ॥ " इति ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy