________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा..
टी.आ.का.
स इति । अङ्कन ऊरुभागेन । जटायु जटायारत्मापापास्त ॥ ३७॥ जटायुरिति । अभिक्रम्य अभितो गत्वा, अवसरं प्रतीक्ष्येत्यर्थः । अस्य वामबाहून यैः सीता परिष्वक्ता तानित्यर्थः। व्यपाहरत् अच्छिनत् ॥ ३८॥ संछित्रबाहोः रावणादिति शेषः । सधैवेत्याचे सलोपे वृद्धिः । अभवन् ।
स परिष्वज्य वैदेहीं वामेनाङ्केन रावणः । तलेनाभिजघानाशु जटायुं क्रोधमूछितः ॥ ३७ ॥ जटायुस्तममिक्रम्य तुण्डेनास्य खगाधिपः । वामबाहून दश तदा व्यपाहरदरिंदमः॥३८॥ संछिन्नबाहोः सद्यैव बाहवः सहसाऽभवन् । विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः ॥ ३९ ॥ ततः क्रोधाद्दशग्रीवः सीतामुत्सृज्य रावणः। मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत् ॥४०॥ ततो मुहूर्त सङ्कामो बभूवातुलवीर्ययोः । राक्षसानां च मुख्यस्य पक्षिणा प्रवरस्य च ॥४१॥ तस्य व्यायच्छमानस्य रामस्याथै सरावणः। पक्षी पावों च पादौ च खङ्गमुद्धृत्य सोऽच्छि नत् ॥ ४२ ॥ स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा । निपपात हतो गृध्रो धरण्यामल्पजीवितः॥४३॥ तं दृष्ट्वा पतितं भूमौ क्षतजार्द्र जटायुषम् । अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता ॥४४॥ तं नीलजीमूतनिकाश कल्पं सुपाण्डुरोरस्कमुदारवीर्यम् । ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम् ॥४५॥ प्रादुरभवन् । विषज्वालेत्युपमानविशेषणाद्वाहूनां सायुपत्वं गम्यते ॥ ३९ ॥ तत इति । अपोथयदताडयत् ॥४०॥ तत इति । सङ्घामो युद्धम् ॥४१॥ तस्येति । व्यायच्छमानस्य व्यायाम कुर्वतः । “आङले यमहनः" इत्यात्मनेपदम् । “शरीरायासजनकं कर्म व्यायाम उच्यते" इति। वाग्भटः । युद्धं कुर्वतः इत्यर्थः। पाचौँ पक्षमूले ॥४२॥ स इति । अल्पजीवितः द्वित्रिक्षणावस्थानोचितप्राण इत्यर्थः ॥४३॥ क्षतजं शोणितम् ॥४४॥ नीलजीमूतनिकाशकल्पनीलमेघप्रकाशतुल्यम् । अग्निदावं दावाग्निम् ॥ ४५ ॥ सच्छिन्नवाहोः कर्तितबाहोरपि तस्य वाहवः पुनः सहसा समभवन वल्मीकात्पन्नगा इव ॥ ३९-४१॥ तम्येति । व्यायच्छमानस्य व्यायाम कुर्वतः । “शरीरायास जनक कर्म व्यायाम उच्यते" इति । युद्धं कुर्वत इत्यर्षः ॥ ४२-४४॥ नीलजीमूतनिकाशकल्प नीलजीमूतस्य निकाशः प्रकाशः तत्कल्पम्, तत्सदृशभकाश
१२५॥
For Private And Personal Use Only