________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
शिलीमुखैः शिली शल्यं मुखे येषां तैः बाणैः गृधं विभेद् ॥ ९ ॥ समभिद्रवत् समभ्यद्रवत् ॥ १० ॥ सशरं संहितशरम् ॥११॥ क्रोधमूर्च्छितः कापेन ! व्याप्तः ॥ १२ ॥ आवारितः आ समन्ताद्व्याप्तः । कुलायं नीडं प्राप्तः पक्षीव बभौ ॥ १३ ॥ तानि च पक्षाभ्यां विधूय चरणाभ्यां धनुर्बभञ्ज चेत्यन्वयः ॥१४॥ स राक्षसरथे पश्यन् जानकीं बाष्पलोचनाम् । अचिन्तयित्वा तान बाणान राक्षसं समभिद्रवत् ॥ १० ॥ ततोस्य सशरं चापं मुक्तामणिविभूषितम् । चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः ॥ ११ ॥ ततोन्यद्धनुरादाय रावणः क्रोधमूर्च्छितः । ववर्ष शरवर्षाणि शतशोथ सहस्रशः ॥ १२ ॥ शरैरावारितस्तस्य संयुगे पतगेश्वरः । कुलायमुप सम्प्राप्तः पक्षीव प्रबभौ तदा ॥ १३ ॥ स तानि शरवर्षाणि पक्षाभ्यां च विधूय च । चरणाभ्यां महातेजा बभञ्जस्य महद्धनुः ॥ १४ ॥ तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम । पक्षाभ्यां स महावीयों व्याधुनोत्पतगेश्वरः ॥ १५ ॥ काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान् । तांश्चास्य जवसम्पन्नान् जघान समरे बली ॥ १६ ॥ वरं त्रिवेणु सम्पन्नं कामगं पावकार्चिषम् । मणिहेमविचित्राङ्गं बभञ्ज च महारथम् ॥१७॥ पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह । पातयामास वेगेन ग्राहिभी राक्षसैः सह ॥ १८ ॥ सारथेश्वास्य वेगेन तुण्डेनैव महच्छिरः । पुनर्व्यपाहर च्छ्रीमान पक्षिराजो महाबलः ॥ १९ ॥
शरावरं कवचम् | पक्षाभ्यां पक्षवातेन व्याधुनोत् प्राच्यावयत् ।। १५ ।। काञ्चनोर छदान् स्वर्णमयकवचयुक्तान् । " उरश्छदः कङ्कटको जागरः कवचो ऽस्त्रियाम्" इत्यमरः । बली जटायुः ॥ १६ ॥ वरमिति । त्रिवेणुः युगन्धरः । कामं यथेच्छं गच्छतीति कामगम् ॥ १७ ॥ पूर्णेति । ग्राहिभिः छत्र चामरादिग्राहकैः । " नन्दिग्रहि -" इत्यादिना णिनिः ॥१८॥ सारथेरिति । व्यपाहरत् खण्डितवान् । पुनरित्यनेन छत्रादिखण्डनं तुण्डेनेति सूच्यते ॥ १९ ॥ शब्दो गुणवचनौ । वाणयन्ति रोषयन्ति शत्रुमिति बाणाः । अजिह्मगा ऋजुगामिनः । शिली शल्यं मुखे येषां ते तथा तैः । निशितैः शाणोल्लिखितैः, अत एव तीक्ष्णैः ॥ ९-१२ ॥ स जटायुः शरैरावारितः आच्छादितः कुलायं नीडम् ॥ १३ ॥ १४ ॥ शरावरं कवचम् । व्याधुनोत पातयामास ॥ १५ ॥ उरछदान कवच युक्तान् ॥ टीका-पञ्चास्यजवसम्पन्नान् इति पाठे सिंहसदृशवेगयुक्तान् ॥ १६ ॥ त्रिवेणुः स्थावयवविशेषम्, युगन्धर इति यावत् ॥ १७ ॥ ग्रादिभिः छत्रचामरग्राहकैः ॥ १८-२२॥
For Private And Personal Use Only