________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Sivi Kalassagarsun Gyarmandir
शादिति भावः । अन्यपरार्थवादादिव्यावृत्त्ययों वेदशब्दः । यथा तामन्यथा कुर्वन् स्वयमेव विनश्यति न वेदश्रुतेः कापि हानिः एवं सीतामपहरंस्त्वमेव नशिष्यासि, न तु सीतायाः कापि हानिरित्याकृतम् । यथा वेदविदओसरो वेदश्रुतिमन्यथा नीयमानामवलोकयन् तदसहमानो यावच्छक्ति निवर्तयति तथाऽहमपि त्वया बलानीयमानामपि सीता यावच्छक्ति निवर्तयिष्यामीत्यर्थः॥२१॥ युद्ध्यस्वेति। यदि शूरोसि मुहूर्त तिष्ठ।मा पलायस्व मया युद्ध्यस्व।
युद्ध्यस्व यदि शूरोसि मुहूर्त तिष्ट रावण । शयिष्यसे हतो भूमौ यथा पूर्व खरस्तथा ॥ २२ ॥ असकृत्संयुगे येन निहता दैत्यदानवाः। नचिराच्चीरवासास्त्वां रामो युधि वधिष्यति ॥ २३॥ किंतु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ। क्षिप्रं त्वं नश्यसे नीच तयोभींतो न संशयः ॥२४॥ न हि मे जीवमानस्य नयिष्यसि शुभा मिमाम् । सीता कमलपत्राक्षी रामस्य महिषीं प्रियाम् ॥ २५ ॥ अवश्यं तु मया कार्य प्रियं तस्य महात्मनः। जीवितेनापि रामस्य तथा दशरथस्य च ॥२६॥ तिष्ठ तिष्ठ दशग्रीव मुहूर्त पश्य रावण । युद्धातिथ्यं प्रदास्यामि
यथाप्राणं निशाचर ॥२७॥ पायुद्ध मया हतस्त्वं पूर्व रामेण हतः खर इव भूमौ शयिष्यसे । यदा यदि शूरोसि तदा मया युद्धयस्व । अथवा रामागमनपर्यन्तं मुहूर्त तिष्ठ तेन हतः ।
शयिष्यस इति । यदा यदि शूरोसि मुहूतै तिष्ठ स्थित्वा तेन युद्दयस्व ॥२२॥ न केवलं स्वापराधप्रतीकारः किन्तु“देवानां दानवानां च सामान्यमधिदेवतम" इत्युक्तस्य रामस्य स्वकीयापराधप्रतीकारोपि भविष्यतीत्याह-असकृदिति ॥२३॥ एवमुक्तपि पुनः पलायमानं प्रत्याह-किंन्विति । किंतु शक्यं । किंवा शक्यम् । नश्यसे अदर्शनं प्राप्नोषि । तयोः ताभ्याम् ॥२४॥ तथापि त्वां नाहं गमयामीत्याह-नहीति । जीवमानस्य जीवतः मयि जीवतीत्यर्थः। Pim२५॥ त्वया किं कर्तुं शक्यमित्यत्राह-अवश्यमिति । जीवितेनापि जीवितव्ययेनापि ॥२६॥ तिष्ठति । यथाप्राणं यथावलम् ॥२७॥
यदि शूरोसि युद्धचस्व अथवा मुहूर्त तिष्ठ, रामागमनपर्यन्तमित्यर्थः ॥ २२ ॥ रामपराक्रम वर्णयति-असकृदिति ॥ २३ ॥ रामः कुबास्ते तमानयेत्यत आहकिमिति । तावुभावपि नृपात्मजो दूरं गतौ अत एवाहर्तुमानेतुं किं तु शक्यं कथं शक्यमित्यर्थः । अत एव तयोरागमशङ्कया त्वं तयोस्ताभ्यां भीतः क्षिप्रं नश्यसे अदर्शनाय पलायसे न संशय इत्यर्थः ॥२४॥ तथापि जीवमानस्य जीवतः। नयिष्यसि नेष्यसि ॥ २५॥ कुतः अवश्यमिति । स्पष्टोऽर्थः ॥२६॥ यथाप्राणं
For Private And Personal Use Only