________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सम्प्राप्तः योग्यः । एवं विषयचपलश्वेदेश्वर्याभ्रष्टो भविष्यसीति भावः॥१०॥ एवं बहुसान्त्वनेपि सीताविसर्जनाकरणात् भवादृशे उपदेशो निरर्थक इत्याह-काममिति । यो यस्य स्वभावः औत्पत्तिकः स धर्मः कामम् अत्यन्तं परिमार्जितुं न शक्यः । उपदेशेन निवर्तयितुं न शक्य इत्यर्थः । तथाहि । आर्य सदुपदेशः दुष्टात्मनाम् आलये हृदये चिरं नावसति न तिष्ठति ॥ ११ ॥ शवभार्यापहरणं मम स्वभाव इत्याशय शात्रवप्रसक्तिरत्र
कामं स्वभावो यो यस्य न शक्यः परिमार्जितुम् । नहि दुष्टात्मनामार्यमावसत्यालये चिरम् ॥ ११॥ विषये वा पुरेवा ते यदारामो महाबलः। नापराद्धयति धर्मात्मा कथं तस्यापराद्धयसि॥१२॥ यदि शूर्पणखाहेतोर्जनस्थानगतः खरः। अतिवृत्तो हतः पूर्व रामेणाक्लिष्कर्मणा ॥ १३॥ अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः। यस्य त्वं लोकनाथस्य भार्या हत्वा गमिष्यसि ॥ १४ ॥ क्षिप्रं विमृज वैदेहीं मा त्वा घोरेण चक्षुषा । दहेद्दहनभूतेन वृत्र मिन्द्राशनिर्यथा ॥ १५॥ सर्पमाशीविषं बवा वस्त्रान्ते नावबुद्धयसे। ग्रीवायां प्रतिमुक्तं चकालपाशं न पश्यसि ॥१६॥ नास्तीत्याह-विषये वेति । विषये राज्ये यदा नापराध्यति तदा तस्य कथमपराध्यसि ॥ १२॥ वरवध एव ममापराध इत्याशङ्कयाह द्वाभ्याम्-यदी त्यादि। वृत्तं मर्यादामतिकान्तोतिवृत्तः। अत्र हननविषये। यस्येति । तस्येति पूर्वशेषः॥१३॥१४॥ प्रकृतमुपसंहरति-क्षिप्रमिति । अत्र राम इत्यध्याहार्यम्। चक्षुपेत्यनेन दर्शनमात्रेण वधो लक्ष्यते । अशनिः वज्रम् ॥ १५॥ सीताग्रहणमवश्यं मृत्युकरमित्याह-सर्पमित्यादिना आशीविषम् आशीविषाख्यम् । ननु दुष्टः समीचीनो वा स्वभावो दुरतिक्रमः, तब दुष्टस्वभाषानामपि प्राप्तमैश्वर्य दुर्निवारमेवेत्यत आह कामस्वभाव इति । स्वभावो दुरतिक्रमोऽस्तु, दुष्टात्मना मालये गृहे आर्यमैश्वर्य चिरं चिरकालं नावसति न तिष्ठति । अयं भाव:-सुकृते सत्यैश्वर्यप्राप्तिः, सुकृतं च दुष्टात्मना क्रियमाणं प्रायेण निष्फलं भवति, तवैतत्सम्भावितम् । यद्वा यस्य पुरुषस्य यः कामः स्वभावस्तस्य स स्वभावः परिमार्जितुं न शक्यः । कुतः हि यस्मादृष्टात्मनामालये चित्ते आर्य पूज्यं पुण्यमिति यावत् । चिरं चिराय नावसति तस्माद् " धर्मेण पापमपनुदति" इति श्रुत्या कामादिस्वभावानिवृत्तिकारणत्वेन बोषितस्य धर्मस्य पापिष्वभावात्पापस्वभावो न शाक्यमार्जनः केनापीत्यर्थः ॥ ११॥१२॥ यदीति । अतिवृत्तः उचितमतिक्रम्य जायमानं व्रतं यस्य स तथा गमिष्यसीत्पत्रकाकन जीवन गमिष्यसीत्यर्थः। ॥ १३॥ १४ ॥ क्षिप्रमिति । राम इत्यध्याहारः। त्वा दहनभूतेन चक्षुषा मा दहेव अन्यथा दहेदित्यर्थः॥ १५ ॥ १६ ॥ स-कार्यगौरवादाति रावणसम्बोधनम् । दुष्टामनामालये मा लक्ष्मीः चिरं बहुकालं न वसति किन्तु आर्यमा ज्येष्ठलक्ष्मीर्वसति । पूर्वत्र मा बसतीति च्छेदः ॥११॥
For Private And Personal Use Only