SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir सुच्यते ॥ १० ॥ त्रिष्विति । वरारोहे वरजघने ॥ ११ ॥ पुनस्त्यागशङ्कां मा कार्षीरित्याड़-मामिति । क्वचित् कापीत्यर्थः ॥ १२ ॥ त्यज्यतामिति त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि । मामाश्रय वरारोहे तवाहं सदृशः पतिः ॥ ११ ॥ मां भजस्व चिराय त्वमt श्रायः प्रियस्तव । नैव चाहं कचिद्र करिष्ये तव विप्रियम् ॥ १२ ॥ त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् । राज्याच्युतमसिद्धार्थ रामं परिमितायुषम् ॥ १३ ॥ कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि । यः खिया वचनाद्राज्यं विहाय समुहज्जनम् ॥ १४ ॥ अस्मिन् व्याखानुचरिते वने वसति दुर्मतिः ॥ १५ ॥ इत्युक्का मैथिली वाक्यं प्रियाही प्रियवादिनीम् । अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः । जग्राह रावणः सीतां बुधः खे रोहिणीमिव ॥ १६ ॥ सार्धश्लोकद्वयमेकान्वयम् । मानुषः मनुष्यरामविषयः । भावः खेहबन्धः । व्यालाः हिंस्राः । तमिति पूर्वेणान्वयः ॥ १३-१५ ॥ इतीत्यादिसार्धश्लोक त्रिषु लोकेषु विख्यातमित्यादिस चतुष्टयश्लोकस्य प्रातीतिकार्यः स्पष्टः । कुलकम् । वस्तुतस्तु भर्तारं शुश्रूषादिना स्वामिनं विभर्तीति भर्ना, नृत्य इत्यर्थः । पतिः रक्षसामिति शेषः । यद्यहं रक्षसां पतिः तथापि तव सदृशः अनुरूपः किम् ? भृत्य इति शेषः । अनुरूषो भृत्यो न भवामि तथापि भृत्यमिच्छसि यदि त्रिषु लोकेषु विख्यातं यथा तथा भामाश्रय भृत्यत्वेनाङ्गीकुरु । कुतः ? चिराय चिरकालादारभ्य तव श्लाघ्यः प्रियः प्रीणयति शुश्रूषादिना स्वामिनमिति प्रियो भृत्यः । जयस्यैव रावणरूपेणोत्पन्नत्वात् । अतो मां भृत्य इति भजस्व जानीहीत्यर्थः । अत एव नैवाहमिति । मानुषे भावस्त्यज्यताम्, मनुष्य एव रक्षणीय इत्यभिप्रायस्त्यज्यता मित्यर्थः । किन्तु प्राचीनकृपया मूठे पण्डितमानिन्यपि राक्षसे भृत्ये मयि भावः प्रणीयताम् अयमपि रक्षणीय इत्यनुसन्धीयतामित्यर्थः । किञ्च राज्याच्युतं तुच्छी कृत्य राज्यभोगमित्यर्थः । कुतः ? असिद्धार्थम् अश्वासौ सिद्धार्थश्च असिद्धार्थस्तम् अवाप्तसमस्तकामं विष्णुमित्यर्थः । परिमितायुषं परिगतं त्यक्तं मितमल्पमायुर्येन तम् अपरिमितायुषमित्यर्थः । किञ्च कैर्गुणैरनिर्वचनीयैर्गुणैरनन्तकल्याणगुणैरित्यर्थः । युक्तमिति शेषः । अनुरक्तासि, कुत एवं दुर्मतिः दुष्टेष्वपि मतिः अनुग्राहिका यस्य सः अत एव हि स्त्रिया वचनात्सुहृज्जनं राज्यं विहाय वने वसति तादृशं त्वमनुरक्तासि यतः अतस्सर्वोत्तमा लक्ष्मीस्त्वम् अत एव मां भृत्यत्वेनाङ्गीकुर्विति तात्पर्यम्॥११- १५ ॥ इतीति । प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु रावणः अन्यत्र सुदृष्टात्मा काममोहितश्च यद्यपि तथाप्यत्र न तथा अत एव बुधः रोहिणीमिव जग्राह टीका०-जाह रावणः सीतां बुधः से रोहिणीमिवेति । नन्वत्र नलकूबरवेदवत्यादिशापाद्वात्कथं परदारस्पर्श इति चेतः सत्यम् रावणः सीतां साक्षान जमाह न स्पृष्टवान् परन्तु जानुकेशादिच्छायामेव जमाह । राक्षसानां छायाग्राहित्वात् । तदुक्तं स्कान्दे-“ छायाग्राहित्वमप्यस्ति सर्वविद्याविशारदे । केशच्छायां परामृश्य जानुच्छायां तथैव च । गृहीत्वा जानकी हृष्टो लङ्कां प्रायात्स रावणः । सीतापहरणं चैव ये शृण्वन्ति नरोत्तमाः । न तेषामशुमं देवि भविष्यति कदाचन ॥” इति ॥ स०- प्रियः स्वप्रियो रामः तस्यैवार्हाम् । अत एव तमेव वदतीति प्रियवादिनी ताम् ॥ १६ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy