________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
मयत्वात् पाण्डरेण हेममय्यः कक्ष्याः हाङ्गणादयो यस्याः सा । “कक्ष्या प्रकोष्ठे हादः काश्यां मध्येभवन्धने" इत्यमरः । तोरणो बहिरिम् ।। सम्बाधा सङ्कला । तूर्यनादेन वायशब्देन विनादिता । सर्वः कालो येषां तानि सर्वकालानि, सर्वकालसम्भवानीत्यर्थः । तादृशानि फलानि येषां ते सर्वकालफलैः । सङ्कलोद्यानैः व्याप्तोद्यानेः शोभिता एतादृशी सा पुरी रम्येत्यन्वयः ॥ ११ ॥ १२ ॥ तत्रेति । वसती वसन्ती । अनित्यमागम
हस्त्यश्वरथसम्बाधा तूर्यनादविनादिता। [शतयोजनविस्तीर्णा त्रिंशद्योजनमायता।] सर्वकालफलैर्वृक्षःसङ्कलोद्यान शोभिता॥ १२ ॥ तत्र त्वं वसती सीते राजपुत्रि मया सह।न स्मरिष्यसि नारीणां मानुषीणां मनस्विनी ॥ १३॥ भुआना मानुषान् भोगान दिव्यांश्च वरवर्णिनिन स्मरिष्यसि रामस्य मानुषस्य गतायुषः ॥ १४॥ स्थापयित्वा प्रियं पुत्रं राज्ञा दरशथेन यः। मन्दवीर्यः सुतो ज्येष्ठस्ततःप्रस्थापितो ह्ययम् ॥ १५॥ तेन किं भ्रष्टराज्येन रामेण
गतचेतसा। करिष्यसि विशालाक्षि तापसेन तपस्विना ॥ १६ ॥ शासनमिति नुमभावः । नारीणामिति "अधीगर्थ-" इति षष्ठी। मनस्विनी तत्समासक्तेत्यर्थः ॥.१३ ॥ मानुपान् मनुष्यलोकसम्भवान् । दिव्यान् स्वर्ग सम्भवान् । गतायुषः गतप्रायायुषः, अल्पायुष इत्यर्थः । अनेन भुञ्जाना मानुषान् भोगानिति पूर्व सीतोक्तस्य परिहार उक्तः ॥ १४ ॥ अथ रामस्य स्वापेक्षया उक्तमतिशयं प्रतिवक्ति-स्थापयित्वेत्यादिना, शोकद्वयमेकान्वयम् । प्रियं पुत्रं भरतं राज्ये स्थापयित्वा ततो राज्यात प्रवाजितः । ज्येष्ठत्वेपि प्रवाजनान्मन्दवोर्यत्वं सिद्धमित्याह-तेनेति । तेन मन्दवीर्येण । गतचेतसा कर्तव्याकर्तव्यमूढमनसा । तापसेन " भनाः कृषेर्भागवता भवन्ति " इति । न्यायेन अशूरेण ।तपस्विना शोच्येन। "तपस्वी तापसः शोच्यः" इति विश्वः। अनेन इतः परं राज्यं साधयिष्यतीत्याशा न कर्तव्येत्युक्तम् ॥१५॥१६॥
ण प्राकारेण राजतेनेत्यर्थः ॥११-१५॥टी-मस्येति कर्मणि षष्ठी ॥१४॥ तापसेन मुनिना । तपस्विना शोच्येन । तत्र त्वं वसती सीतेत्यारभ्य तब भाग्येन समाप्त भजस्व वरवर्णिनीत्यन्तस्य ग्रन्थसन्दर्भस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु-तत्रेति । तत्र लङ्कायां वसती त्वं मयाभृत्येन समर्पितानिति शेषः।मानुपान दिव्यांश्च भोगान् सह एकदेव भुनाना सती । मानुषीणां नारीणामिति द्वितीयार्थे पष्ठी । न स्मरिष्यसि । किव मानुषस्य मनुष्यरूपेणावतीर्णस्य । गतायुषः गतं प्राप्तमङ्गीकृत मेकादशसहस्रवत्सरापुर्येन तस्य रामस्य भगवतः श्रीमन्नारायणस्य सम्बन्धिन इति शेषः । नः अस्मान स्मरिष्यसि ॥ स्थापयित्वेति । यः मन्दवीर्यः तमप्रियमपि
प
For Private And Personal Use Only