________________
Shri Mahavir Jan Aradhana Kendra
www.kobatisth.org
Acharya Shri Kalasagasun Gyarmandie
प्रापणादिति भावः ॥ ७॥ तम् एवं परुपं वदन्तम् । परुपवचनादेव हेतोः कोपसंरक्तलोचनः । विकृताकारं विकृताकारमापि पापे सीताहरणे चेतो यस्य तम् ॥८॥ क्षुद्र हीनजाते ! धिकारे हेतुरयम् । हीनार्थम् उत्तमाङ्गनाभिलापरूपहीनप्रयोजनमिति यावत् । मृत्युम् अन्वेपणहेतुं मरणं सम्प्रा प्स्यसे अन्वेषणं सफलं भविप्यतीत्यर्थः । तदा किञ्चिदुपेक्षया गन्तुमुद्युक्तं प्रत्याह तिष्ठति । गमनं च दुर्लभमित्याह नेति । मे पुरत इति ।
तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः। राक्षसं विकृताकारं विराधं पापचेतसम् ॥८॥क्षुद्र धिक् त्वां तु हीनाथ मृत्यु मन्वेषसे ध्रुवम् । रणे संप्राप्स्यसे तिष्ठ न मे जीवन् गमिष्यसि ॥९॥ ततःसज्यं धनुः कृत्वा रामः सुनिशितान शरान् । सुशीघ्रमभिसन्धाय राक्षसं निजघान ह ॥ १०॥ धनुषा ज्यागुणवता सप्त बाणान् मुमोच ह । रुक्म पुवान महावेगान सुपर्णानिलतुल्यगान् ॥ ११ ॥ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः। निपेतुः शोणिता दिग्धा धरण्यां पावकोपमाः॥ १२॥ स विद्धो न्यस्य वदेहीं शूलमुद्यम्य राक्षसः । अभ्यद्रवत्सुसंक्रुद्धस्तदा राम
सलक्ष्मणम् ॥ १३ ॥ स विनद्य महानादं शूलं शक्रध्वजोपमम् । प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः ॥१४॥ शेषः ॥९॥ राक्षसं प्रति शरान् निजघान अमुञ्चत् । “ इन हिंसागत्योः" इति धातुः॥ १० ॥ पुनः शरान् विशिंपन्नाह-धनुषेति । ज्यारूपो गुणो रज्जुः तद्वता । महावेगान् अत एव सुपर्णानिलाभ्यां तुल्यं गच्छन्तीति तथोक्तान् ॥ ११ ॥ बाहणवासस इति स्वार्थे इनन् । बहिणवाससः बर्हपत्रा इत्यर्थः । शोणितेन आदिग्धाः ईपल्लिप्ताः रक्तोद्मात्पूर्वमेव शरीरान्निर्गमादिति भावः । पावकोपमा इति भूस्थतृणादिदहनादग्निसाम्यसिद्धिः ॥ १२॥ विद्धः बाणवेधजनितवेदनातिशयवान् ! न्यस्य भूमौ निक्षिप्य ॥ १३ ॥ महान् नादः प्रतिध्वनियस्मिस्तद्यथा भवति तथा विनय । शक मामिति शेषः प्रमदामादायेति च शेषः। यथागतं त्वरमाणो पलायेथां गच्छेथाम्। वा युवयोः जीवितं प्राणसमं स्त्रीरत्नम् । नाददे इत्युवाचति पूर्वेण सम्बन्धः ॥७॥ क्षुद्रेति । रणे तिष्ट ध्रुवं संपारपसे मृत्युमित्यनुषतः । मे मम पुरतः । जीवन् क गमिष्यसीति सम्बन्धः ॥९॥शरानभिसन्धाय धनुषीति शेषः । सुदीर्घमाकर्ण माकृष्येति शेषः॥ १० ॥ ज्यागुणवता ज्यीशब्दवता सुपर्णानिलाभ्यां तुल्यं गच्छन्तीति तथा ॥ ११ ॥ बहिणवाससः बहवासस इति यावत् । वासः पत्रम् । शोणितादिग्धाः रक्तालिप्ताः॥१२॥ विद्धः ताडितः । दैदेहीं न्यस्य ! वस्तुतस्तु-नैदेहीं न्यस्य सीतासमीएमगत्वा ! महानादं विनद्य कृत्वा ॥ १३ ॥ १४ ॥
For Private And Personal Use Only